SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ बालभारतम् किं किं किं चु चु चुम्बनम म मुधा वक्त्राम्बुजस्याग्रतो दे दे देहि पि पि प्रिये सु सु सुरां पात्रे त्रिरे रेवति। मा मा मा वि विलम्बनं कु कु कुरु प्रेम्णा हली याचते . यस्येत्थं मदघूर्णितस्य तरसा वाचः स्खलन्त्याकुलाः ॥५२॥ अपि च, नीलाम्बरं नलिनदाम च यस्य भूषा यत्प्रीतिकारि मधुरं मधु रेवती च । लीलार्धदृष्टधनुरत्र हली सहेलं शारैः स एष खलु खेलति खेलगामी ॥५३॥ द्रौपदी-यः किलैरावणवारण इव सदा मदखच्छन्दः । बन्दी-किमाह कामपाल:रेवतीं त्रिभुवनैकसुन्दरी न प्रकोपयति रोहिणीसुतः । तेन नैष विदधाति कौतुकी दृक्त्रिभागमपि कृष्णकार्मुके ॥५४॥ (पुनः।) बन्दी यः पीयूषभुजां पुरः प्रहरतां दम्भोलिपाणिं रणे । निर्जित्योर्जितशाङ्गनिर्गतशरश्रेणीभिरुद्दामभिः। शच्या वाञ्छितमौलिवन्धरचनैः पुष्पैः सदा सुन्दरांश्चके नन्दनपारिजातकतरून्विश्वंभरासाक्षिणः ॥५५॥ वृषतुरगकरीन्द्रस्यन्दनाद्याकृतीनां किमपरमसुराणां मन्थिता सोऽयमास्ते । कृतसुरपरितोषः षोडशस्त्रीसहस्त्र. प्रणिहितपरिरम्भस्यास्पदं पद्मनाभः ॥५६॥ - द्रौपदी-यस्य किल कलकण्ठीमञ्जुलजल्पिनी रुक्मिणी प्रथमकलत्रम् । यस्य काञ्चनाभा सत्यभामा संवननं हृदयस्य । बन्दी–किमाह देवो वासुदेवः ।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy