SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ मायूराजसमो जज्ञे नान्यः करचुलिः कविः । उदन्वतः समुत्तस्थुः कति वा तुहिनांशवः ॥ (सूक्तिमुक्तावलिः, सुभाषितहारावलिः.) हैहयवंशोद्भवाः करचुलि ( कलचुरि ) नामानः केचन क्षत्रिया अद्यापि ‘रीमा' (रेवा)। राज्ये वर्तन्ते. राजशेखरसमये चेदिदेशान्तर्गता माहिष्मती नाम नगरी तेषां राजधान्यासीत्. 'यन्मेखला भवति मेकलशैलकन्या वीतेन्धनो वसति यत्र च चित्रभानुः । तामेष पाति कृतवीर्ययशोवतंसां माहिष्मती कलचुरेः कुलराजधानीम्॥' इति बालरामायणम् (३॥३५) मेकलसुता नर्मदा. सा च माहिष्मती इन्दोरनगरा: दक्षिणदिशि पञ्चड्योजनान्तरे नर्मदादक्षिणतटेऽधुना 'महेश्वर' इति नाना प्रसिद्धा इन्दोरनृपतेरेवाधीना वर्तते. चेदिदेश एव नर्मदोपकण्ठे त्रिपुरीनाम द्वितीयापि कलचुरिराजधान्यासीत्. 'सीतास्वयंवरनिदानधनुर्धरेण दग्धात्पुरत्रितयतो विभुना : भवेन । खण्डं निपत्य भुवि या नगरी बभूव तामेष चैद्यतिलकस्त्रिपुरी प्रशास्ति ॥' इत्यपि बालरामायणम् (३।३८). त्रिपुरी चेदिनगरी' इति हैमनाममाला (४।४१) राजशेखरकृतविद्धशालभजिकाकथानायकः करचुलिकुलोत्पन्नोऽस्यामेव त्रिपुर्यामासीत्. 'करचुलितिलको वर्तते चक्रवती' इति, 'खस्तिश्रीमत्रिपुर्या तुहिनकर सुतावीचिवाचालितायाम्' इति च विद्धशालभञ्जिकाचतुर्थेऽङ्के वर्तते, तुहिनकरसुता सोमोद्भवा नर्मदा. सा च त्रिपुरी इदानीं 'तेवुर' इति नाना प्रसिद्धा जबलपुरसमीपे वर्तते इति दक्षिणदेशेतिहासपुस्तके ( ३७ पृष्ठे) पण्डितवरभाण्डारकरः करचूलिवंशोद्भवोऽयं मायूराजक विश्वेदिदेश एवोत्पन्नः स्यात्. 'गण्डूषाशोषिताब्धिप्रकटजलधरोत्फालजातस्मितानां हेलाकृष्टार्कचन्द्राभिनवकृतमहाकुण्डलाभोगभाजाम् । पीनोरःस्थापिताशाद्विरदमदमषीमांसलस्थासकानां दूरं यातस्य वत्स स्मरति दशशिरास्त्वच्छिशुक्रीडितानाम् ॥' इत्याद्याः केचन श्लोका मायूराजनाम्ना समुद्धृताः सूक्तिमुक्तावल्यादिषु प्राप्यन्ते. तद्विलोकनेन च मायूराजः कस्यचिद्रामायणकथानुकूलनाटकस्य कर्तासीदिति ज्ञायते. (वक्रोक्त्या मेण्ठराजस्य वहन्त्या सृणिरूपताम् । आविद्धा इव धुन्वन्ति मूर्धानं कविकुञ्जराः ॥) मेण्ठो हस्तिपकः; (पक्षे) राजशेखरेण बालभारत-बालरामायणप्रस्तावनायां गृहीतनामा कश्मीर देशोद्भवो हयग्रीववधकाव्यकर्ता विक्रमादित्यसमकालीनो भर्तृमेण्ठः
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy