SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ कर्पूरमञ्जरी मज्झष्णे सिरिखंडपंककलणा आ संझमोल्लंसुअं लीलामजणमा पओससमअं साअं सुरा सीअला । गिम्हे पच्छिमजा मिणीणिहुवणं जं किं पि पंचेसुणो एदे पंच सिलीमुहा विजइणो सेसा सरा जजरा ॥ ३ विदूषकः - मा एवं भण, - १०६ पंडुच्छ विच्छुरिदणाअलदादलाणं साहारतेल्लपरिपेसलपोष्फलाणं । कप्पूरपं सुपरिवासिदचंदणाणं भद्दं णिदाहदिवसाण वअस्स ! भोदु ॥ ४ ॥ यतः, मध्याह्ने श्रीखण्डपङ्ककलना आ संध्यमाद्रांशुकं लीलामज्जनमा प्रदोषसमयं सायं सुरा शीतला । ग्रीष्मे पश्चिमयामिनीनिधुवनं यत्किमपि पञ्चेषो रेते पञ्च शिलीमुखा विजयिनः शेषाः शरा जर्जराः ॥ ननु कंदर्पस्य पञ्चाधिकानां शराणामेवाभावात्कथं 'शेषाः शरा जर्जराः' इत्युक्तमिति चेन्न, कार्यक्षमपञ्चशरवत्तामात्रादेव पञ्चशरत्वव्यवहारोपपत्तावतिरिक्तशराभावकल्पने मानाभाव इत्यभिप्रायात् । यद्वा - पञ्चैवेषवो मदनस्य, तथापि कालभेदेनान्यान न्या- . नुपादत्त इति पूर्वस्वीकृतेषु जर्जरता युक्तैवेति न कोऽपि दोषः । विदूषकः मैवं भण, पाण्डुच्छ विच्छुरित नागलतादलानां सहकारतैलपरिपेशल पूगफलानाम् । कर्पूरपांसुपरिवासितचन्दनानां भद्रं निदाघदिवसानां वयस्य ! भवतु ॥ पाण्डुच्छवीत्यादि हेतुगर्भविशेषणानि । तथा च यत एतादृशा अत एषां भद्रं भवत्वित्यर्थः । 1 'फरिससीअला' इति पाठः ।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy