SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ कर्पूरमञ्जरी विदूषकः - भो, देवीगंदे पण अप्परूढे वि पेम्मे किं णु कप्पूरमंजरं सव्वंग वित्थारिअलोअणो पिअंतो विअ पलोएसि ? किं तत्तो परिही अमाणगुणा देवी ? राजा - मा एवं भण, - की व संघदि कस्स वि पेम्मगंठी एमेअ इत्थ ण हु कारणमत्थि रूअं । चंगत्तणं पुणु महिज्जदि जं तहिं पि तं दिजए पिसुणलोअमुहेसु मुद्दा ॥ ९ ॥ विदूषकः - भो वअस्स ! किं पुण एदं पेम्मं पेम्मं ति भणति ? ८८ विदूषकः - भोः, देवीगते प्रणयप्ररूढेऽपि प्रेम्णि किमिति कर्पूरमञ्जरीं सर्वाङ्गविस्तारितलोचनः पिबन्निवावलोकयसि ? किं ततोऽपि परिहीणप्रमाणगुणा देवी ? परिहीणं प्रमाणं येषामेवंविधा गुणा यस्याः सा । राजा मैवं भण, काचित्संघटते कस्यापि प्रेमग्रन्थि रेवमेव तत्र न खलु कारणमस्ति रूपम् । चङ्गत्वं पुनर्मृग्यते यत्तत्रापि तदीयते पिशुनलोक मुखेषु मुद्रा ॥ 1 प्रेमग्रन्थिसंघटने न रूपातिशयः कारणं, किं तु तत्स्वभावादेव भवति । तथापि यत्सौन्दर्यान्वेषणं क्रियते केवलं तत्कुटिलमुखेषु मुद्रा दीयते । किमित्यस्यामस्य प्रेमानुबन्ध इति पिशुनजनाकाङ्क्षायां तन्निवर्तकत्वेन परं सौन्दर्यमुपयुज्यत इत्यर्थः । अत्राप्यर्थान्तरन्यासानुप्रासादयः । विदूषकः भोः ( वयस्य 1 ) किं पुनरेतत् [ प्रेम ] प्रेमेति भणन्ति ? 1 ‘अवलोएसि । किं तदो विपरिहीअप्पमाणगुणा' इति टीकानुसारी पाठः ।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy