________________
छत्रयुक्तिः ।
नवाष्ट-सप्त-षट्-संख्यै रश्मिभोरज्जवः क्रमात् । वस्त्र' शलाका-द्विगुणमायामेन प्रतिष्ठितम् ॥ ४५१ ॥ भानु-दिग्ग्रह-वसुभिरङ्गलीभिस्तु कोलकः । षसां यन्मानमुदिततद्राज्ञा ( ३ ) मेव भूतये ॥ ४५२ ॥ पादोनं युवराजस्य अन्येषान्तु तदर्द्धतः ।
एतेन राज्ञो दण्डोऽभूद् युवराजस्य तत्पुनः ॥ ४५३ ॥ अन्येषां तदेव ।
विशुद्ध-काष्ठस्य तु दण्ड- कन्दौ,
तथा शलाका अपि शुद्धवंशजाः ॥
रज्जुश्च रक्ता वसनञ्च रक्तम् ; छत्र' प्रसादं नृपतेर्वदन्ति ॥ ४५४ ॥ प्रसादं इति प्रसादार्हम् ।
नौलोदण्डश्च वस्त्रञ्च शिरः कुम्भस्तु (४) कानकः । सौवर्णं युवराजस्य प्रतापं नामविश्रुतम् ॥ ४५५ ॥ चान्दनौ दण्डकन्दौ चेत् सुशुक्ले रज्जुवाससी । छत्त्व मनोहरं राज्ञां स्वर्ण-कुम्भोपशोभितम् ॥ ६५.६ ॥ कानको दण्डकन्दौ तु शलाकाऽपि कानका । शुक्लानि रज्जु वासांसि स्वर्णकुम्भस्तथोपरि ।
इदं कनकदण्डाख्यौं छत्र सर्व्वार्थ साधकम् ॥ ४५७ ॥ दण्ड-कन्द-शलाकाश्च शुद्ध स्वर्णेन निर्मिताः । कौलकं स्वर्ण- घटितं शुक्र रज्जु- वाससी । कुम्भादि रथ हंसादिश्चामरादिर्यथाक्रमम् ॥ ४५८ ॥
(३) तदण्डानेव इति (ग) पुस्तक पाठः । (४) कोलक ति (ख) पुस्तक पाठः ।
६३