SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ २६ युक्तिकल्पतरौ - परदारेषु यो दोष स्तथा पर-पुरीषु च । यदिच्छेच्छाश्वतीं लक्ष्मोन्तदेतत् उभयन्त्यजेत् ॥ ६७४ ॥ निज - लग्नं दशामान-मिते निजकृते नरे (१) । नगरे यो वसेद्राजा लक्ष्मीस्तस्यैव शाखती १७५ ॥ इति भोजराजोये युक्ति कल्पतरौ नगरो युक्तिः ॥ अथ बास्तुयुक्तिः । तत्त्रस्थान-निर्णयः 1 नदी श्मशान शैलानां वनस्य निकटे तथा । न वास्तुकर्म कुर्व्वीत न इन्द- नगरान्तयोः । १७६ ॥ तव दिनिर्णयः । राक्षसानिल-वीनां यमस्य दिशि वेश्मनः । नारम्भं कारयेद्राजा भोरुग्दाह-क्षयप्रदम् ॥ १७७ ॥ तथाहि, भोगः कीर्त्तिर्धनं रोगः स्थिरता च भयङ्करः । दाह इत्येष कथितो दिशि वास्तु-फलोद्भवः ॥ १७८ ॥ भोजे च लग्ने जायते राजा तस्य लग्नस्य यः पतिः । या दिक् तस्य नृपस्तस्यां वास्त्वारम्भ' समाचरेत् ॥ १७८ ॥ -- (१) नवे इति (ख) पुस्तक पाठः ।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy