SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ नौतियुक्तिः । नादूरे पत्ति-वसति न दूरे साधु-मन्त्रिणोः । न वर्णिनो नाधिकाङ्गान् न होनान् नच दुखतान् ॥ १६५ ॥ न देशान्तरगान् नोच्चान् न महाव्याधि-पौड़ितान् । स्वपुरे रक्षयेद्राजा यदीच्छेदात्मनः श्रियम् ॥ ९६६ ॥ न भृत्य - शाला (२) खपुरे न वाध्ययन शालिका | तत्र शत्रुचरःस्थित्वा सर्व्वं वेत्ति वलावलम् ॥ १६७ ॥ भोजेनापि नगर युक्तिरन्यथोक्ता ॥ १६८ ॥ तदुयथा, - राज (ज्ञः) - स्वहस्तैः कोट्या च राजक्षेत्रमुदाहृतम् । एतेन परिमाणेन भूपः पत्तनमारभेत् ॥ १६८ ॥ यस्मिन् लग्ने भवेज्जन्म महीभर्त्तु महीतले । तद्दण्ड-राजक्षेत्रेण राजा पत्तनमारभेत् ॥ १७० ॥ २५ एतेन मेषादिषु पादोन-चतुर्दण्डादिषु मानेषु जातस्य नृपतेः चतुर्भीराजक्षेत्रैः पुरपत्तनमिति भोजाभिप्रायः । शेषं समानम् ॥ १७१ ॥ पराशर संहितायान्तु मानन्तदेव, किन्तु युक्तिरन्या । तदुयथा, - यस्य ग्रहस्य जायेत दशायां नृपतिर्भुवि । दशाब्द-संहितैराज-क्षेत्रैर्नगरमारभेत् ॥ १७२ ॥ --- अथ दोषगुणौ । परलग्न दशामान-मिते पर क्वतेऽथवा । नगरे यो बसेद्राजा सोऽचिरान्मृत्युमाप्नुयात् ॥ १७३ ॥ ( ११ ) न नृत्यशाला इति (ख) पुस्तक पाठः । अध्ययन शालिका वृहत्पाठागारः महाविद्यालयी वा । + रात्री निजस्य दशालग्न-ग्रह-शुद्धिषु नगरं निर्माय तत्र वसेत् । परकीय दशालग्नमामादिषु तथा परार्थनिर्मित- नगरेनैव वसेत् । स्यौयजन्मलग्नादि - सम्बन्धाभावात् । अतःपर निर्मित नगरे व प्रतिकूल जन्मलग्नादौ वासोऽवैध: । ४
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy