SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ गजयुक्तिः। खरता सहजा यस्य शरीरेऽस्तोति लक्ष्यते। . तनुदन्तकरो हस्ती खरः कुलविनाशनः ॥ ४ ॥ नजायते मदो यस्य स्वकाले जायतेऽथवा । विरूपो विवशो वापि विमदं दूरतस्त्यजेत् ॥ ५ ॥ लघु प्रमाण: क्षोणाङ्गस्तनुशुण्ड शिरोदरः । अश्रान्तं स्वसिति (१) व्यग्रः पतेहेनत्रयोर्मलम् ॥ ६ ॥ त्रिके पुच्छाग्रतो वापि आवतॊ मण्डलोऽथवा । वहिः (ह्निः) प्रकुरुते लिङ्ग सर्वथा गतचेष्टवत् ॥ ७ ॥ भूभुजा नहि वीक्ष्योऽयं भापकाख्यो गजाधमः । यदीच्छेच्छाखतीं भूतिं शरीरारोग्यमेव वा ॥ ८ ॥ शवदेशी यस्य भग्नौ स्कन्धदेशोऽति गुच्छकः (२) ! काकोऽयं कुरुते मृत्यु स्वामिनो नात्र संशयः ॥ ८ ॥ विषमौ शङ्खगौ दन्तौ यस्य शुण्डविरोधिनौ। भिद्यते वा विदीयंतां स्वयं शून्यान्तरावुभौ ॥ कुरुते व्याधितं नाथं धूमनामा गजाधमः ॥ १० ॥ मूईजाः कर्कशा रूक्षा जटारूपानुवन्धिनः । यस्यायं जटिलो नागः कुरुते धनसंक्षयम् ॥ ११ ॥ स्कन्धे वा गात्रदेश वा लग्नं चर्मेऽवलक्ष्यते । अजिनो नाम नागोऽयं कुरुते भूधनक्षयम् ॥ १२ ॥ नैनं स्पृशेत्र वीक्षेत यदीच्छेदात्मनः श्रियम् । मण्डलानि प्रदृश्यन्ते एक हे वा वहनि वा ॥ १३ ॥ (१) खसितं इति (क) पुस्तक पाठः । (२) तुच्छकः इति (ख) पुस्तक पाठः ।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy