SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २०२ __ युक्तिकल्पतरोललाटमध्ये यस्यैव दृश्यते येन भूभुजा। ... ... ... ... ... ततो मुणोन्द्राः * ॥ ५ ॥ शवन्मदस्रुति-परिप्लुतगण्डदेशा,स्तीक्ष्णाङ्कुशेन विनिवारयितुं न शक्याः । जातिद्विषो नवपयोद(ध)रवा गभीराः ; पृथ्वीभुजा सकलसौख्यकरा भवन्ति ॥ ८६ ॥ अथ दोषाः। दोनाक्षीणोऽथ विषमो विरूपो विकल: खरः । विमदो मापकः काको धूम्रो जटिल इत्यपि ॥ ८७ ॥ अजिनो मण्डली खित्री हतावर्तो महाभयः । राष्ट्रहा मुषली भाली निःसत्त्व (१) इति विंशतिः ॥ महादोषा: समाख्याता गजानां भोजभूभुजा ॥ ८ ॥ तयथा। अतिक्षीणतरः क्षीणतनुदन्तोऽतिनिष्पभः । दौनाख्यः कुरुते दीनं भूभुजं नात्र संशयः ॥ ८८ । खर्वशुण्डो महापुच्छो निखासो वेगवर्जितः । क्षीणोऽयं कुरुते क्षोणं स्वामिनं धनसम्पदा । १०० ॥ कुम्भे दन्तेऽक्षिकर्णे च वैषम्यं पार्खयोस्तथा । यस्यायं विषमो नागो नागवत् कुरुते क्षयम् ॥ १ ॥ प्रास्कन्धात् तु शिरः क्षीणं पश्चाद्भागस्य पुष्टता । विरूप इति नागोऽयं कुरुते भूधनक्षयम् ॥ २ ॥ नानाभोगैरपि कतैर्यस्य नो जायते मदः । युद्धाय नोपक्रमते विकलं तं विवजयेत् ॥ ३ ॥ (१) निषिद्ध इति (क) पुस्तक पाठः ।। * अत्र ग्रन्याश: किञ्चित् पतित इति मन्ये ।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy