________________
१८७
अभयुक्तिः । ते तैजसाः पुण्यवतां प्रदेशे ; भवन्ति पुण्यरपि ते मिलन्ति ॥ ५० ॥ एको यदा तैजससंज्ञकोऽश्वः, किं कार्यमन्यैस्तुरगाधमैस्तु । शुद्ध यदा होरकखण्डमकं ;
कि कार्यमन्यैर्मणिभिर्विचित्रैः ॥ ५१ ॥ उत्प्नु त्य ये वाजिवरा व्रजन्ति कहा भृशं वेगसमन्विताश्च । ये लङ्घयन्तः परिखामपारां ते गागनाः पुण्यतमाः प्रदिष्टाः ॥ ५२ ॥
हयोर्लक्षणसम्बन्धात् तुरगः स्याद् दिभौतिकः । खजातिगुणभूतानां हयानां वाहनं शुभम् ॥ ५२ ॥ असज्जातिगुणादीनां वाहनं क्लेशकारिणम् । एषां चिकित्सान प्रोता ग्रन्थविस्तार-सम्भवात् ॥ ५४ । शालिहोत्रादिविज्ञानात् तद्विज्ञेयं यथोत्तरम्। असम्भवे (१) हि दुष्टाश्व वाहयेदिति चेत् तदा ॥ ५५ ॥ तिलं सकाञ्चनं दद्यालवणं वा गुड़ान्वितम्। रेवन्त (२) पूजयेद्दापि निजं निर्मन्थयेत् तदा । दद्यात् ताम्रपलं वापि अभावे सर्वकर्मण: ॥ ५६ ॥
एवमन्यत्रापि। काञ्चनं रजतं ताम्र लौहमेतद् यथाक्रमम् । ब्रह्मादि-जातिदोषाणां देयमेतत्पशान्तये ॥ ५७ ॥ अभावेऽपि च सर्वेषां तामेण स्यात् प्रतिक्रिया ॥ ५८ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ हय-परीक्षा (क) ॥ ० ॥ (१) असम्भवेति इति (क) पुस्तक पाठः । (२) वेमन्य इति (ख) पुस्तक पाठः ।। * तुरगतत्त्व सर्व शालिहोबीये, श्रीमजयन्त-नकुल-रचिताश्ववैद्य के नुसन्ध यम् ।