SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ १८६ युकिकल्पतरो अन्यत्रतु। सात्त्विका राजसाश्चेति तामसाश्चेति ते हयाः ॥ ४१ ॥ ये शुद्धवर्णा भृशवेगयुक्ता अशान्ति-भाजी वहुभोगिनश्च । प्रक्रोधशोला: समरऽतिरुष्टास्ते सात्त्विका भूप तुरङ्गमा: स्युः ॥४२॥ ये रक्तवर्णा गुरुवेगरोषाः कषातिघातं (१) न हि ये सहन्ते । येऽमी वलाढ्याः खलु दीर्घदेहास्त राजसा भूप तुरङ्गमाः स्युः ॥४३॥ ये कृष्णवर्णास्तनुरोषवेगा अल्पाशिनो लक्षणलक्षिताश्च । ये दुर्बला: सर्वगुणैविहोनास्ते तामसा भूप तुरङ्गमाऽधमा: ॥४४॥ हयोर्लक्षण सम्बन्धात् द्विगुणो वाजिमध्यमः । त्रयाणां गुणसम्बन्धात् त्रिगुणो वाजिनिन्दित: ॥ ४५ ॥ पराशरसंहितायान्तु,पृथिवि-वायुतेजःखे. पञ्चभिस्तुरगाश्रितः । उल्षणैः पञ्चधा भेदा: पराशरमता यथा । ४६ ॥ ये स्थूला: श्रमसहदेहरूपभाजचालान्ता वहुतर भोजनाश्च दीर्घाः । अक्रुद्धाः समगगतास्तु रोषभाजो ; भौमास्ते धनगुरुघर्घरस्वरास्तु ॥ ४० ॥ ये श्लथाङ्गास्तनुवला: श्रमसह कलेवराः । अक्रोधवेगाः स खमा(ङ्गा) प्राप्यास्त तुरगाधमाः ॥ ४८ ॥ ये वातवेग-प्रतिमोग्रवेगाः शुष्का भृशं दीर्घ कलेवराश्च । अत्रान्तिभाजो वहुदूरगाश्च ते वायवा वाजिवराः प्रदिष्टाः ॥ ४८ ॥ ये क्रोधशौला भृशवेगयुक्ताः, मुक्ता दिनात् क्रोशशतं व्रजन्ति। (१) कलाभिषातं इति (क) पुस्तक पाठः ।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy