________________
१८२
युक्तिकल्पतरो
अथ हयरक्तमोक्षणविधिः । हासप्ततिसहस्राणि नाडोनां सम्भवन्ति हि । वाजिनामिह सर्वेषामाशु रक्तं व्यवस्थितम् ॥ १२ ॥ तासां निर्मोक्षणार्थाय हाराण्यष्टौ वदाम्यहम् । यैर्याति कुत्सितं रक्तं सर्वदेहसमुद्भवम् ॥ १३ ॥ कण्ठे कक्षे लोचनयो रंसयोश्च मुखे तथा । अण्डयोरथ पादेषु पार्खयोरुभयोरपि ॥ १४ ॥ एतद्दम (१) सुविज्ञेयं वाजिनां भिषगुत्तमः । अन्ये सप्तदशान्याहुः शिराबाराणि वाजिनः ॥ १५ ॥ येषु रक्तं हृतं सद्यः प्रकरोति तत: सुखम् । गुल्फे गले तथा मेढ़े कक्षान्ते चैव पत्रके ॥ १६ ॥ गुदे पुच्छेऽथ वस्तौ च जङ्घयोः सर्वसन्धिषु । जिह्वायाञ्चाधर चौष्ठे नेत्रयोरुभयोरपि ॥ १७ ॥ कर्णमूले मणो गण्डे (२) रुधिरं स्रावयेषिक् । सौश्रुतमानप(पा)लेन त्याज्यं रक्तं तुरङ्गप्रमाणम् ॥ १८ ॥
तद्यथा। पलं शतं मुखे त्याज्यं (३) कक्षयोश्चैकमेव च । शताई नेत्रदेशाच मद्देशात् तथैव च ॥ १८ ॥ गण्डयोरण्डयोश्चैव स्रावयेत् पञ्चविंशतिम् । द्वादशैव गुदे प्राहुरख ४ शास्त्रविचक्षणा: ॥ २० ॥
(१) एतदुम्म सविज्ञेयो वाजिनां भिषगुत्तमम् इति (क) पुस्तक पाठः । + (२) कर्णमूले मने प्रान्ते इति (ख) पुस्तक पाठः ।
(३) न्याय्य इति (ग) पुस्तक पाठः । (४) प्राहुरस्त्र इति (घ) पुस्तक पाठः ।