SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ मरकतयुक्तिः । तथा च,खच्छता गुरुता कान्तिः स्निग्धव पित्तकारणम् । हरिबिरजकत्वञ्च सप्त मारकते गुणाः ॥ ६२ ॥ अथ कविमाकत्रिम-परीक्षा। त्रिमत्वं सहजत्वं दृश्यते मूरिभिः क्वचित् । घर्षयेत् प्रस्तरे व्यङ्ग काचस्तस्मादिपद्यते ॥ ६३ ॥ लेखयेलौहझङ्गेण चूर्णनाथ विलेपयेत् । सहजः कान्तिमाप्नोति कृत्रिमो मलिनायते ॥ ६४ ॥ भल्लात: (कः) पुत्रिका काचस्तवर्णमनुयोगतः । मणेमरकतस्यैते लक्षणोया विजातयः ॥ ६५ ॥ क्षौमेण वाससा पृष्टा दीप्तिं त्यजति पुत्रिका । लाघवेनैव काचस्य शक्या कत्तुं विभावना ॥६६ ॥ अथ मरकतमूल्यम्। तथा च गारड़े,तुलया पद्मरागस्य यम्मूल्यमुपजायते । लभ्यतेऽभ्यधिकन्तस्मात् गुणैर्मरकतं स्मृतम् ॥ ६७ ॥ यथा च पद्मरागाणां दोषैर्मूल्यं प्रहीयते । ततोऽस्मिन्नपि सा हानिर्दोषैर्मरकते भवेत् ॥ ६८ ॥ तथाच,गुणपिरहसमायुक्त हरितश्यामभाखरे। मूल्यं हादशकं प्रोक्त जातिभेदेन सूरिभिः ॥ १८ ॥ यवैकेन शतं पञ्च सहस्रं हितये यवे। विभिश्चैव सहस्र हे चतुर्भिश्च चतुर्गुणम् ॥ ७० ॥
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy