SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ वैदूर्ययुक्तिः । १२१ तस्य नाद-समुत्थत्वादाकरः सुमहागुणः । अभूदुत्त()रितो लोके लोकत्रय-विभूषणः ॥ ६॥ तस्यैव दानव-पते निनदानुरूपः, प्राहट पयोद-वरदर्शित-चाररूपाः । वैदूर्यरत्नमणयो विविघावभासाः ; तस्मात् स्फुलिङ्ग-निवहा इव सम्बभूवुः ॥ ७० ॥ . पद्मरागमुपादाय मणि-वर्णा हि ये क्षिती। सर्वीस्तान् वर्ण-शोभाभि वैदूर्यमनुगच्छति ॥ ७१ ॥ तेषां प्रधानं शिखिकण्ठ-नौलम्, यहा भवेद्देणु-दल-प्रकाशम् । चाषाग्रपक्ष-प्रतिमश्रियो ये ; न ते प्रशस्ता मणि-शास्त्रविद्भिः ॥ ७२ ॥ तथा च,सितञ्च धूभ्र-सङ्काशमोषत्कणनिभम्भवेत् । वैदूर्य नाम तद्रत्नं रत्नविद्भिरुदाहृतम् ॥ ७३ ॥ ब्रह्म-क्षचिय-विट-शूद्रजाति-भेदाच्चतुर्विधम् । सितनौलो भवेविप्रः सितरतास्तु वाहुजः । पीतानिलस्तु वैश्यः स्याबोल एव हि शूट्रकः ॥ ७४ ॥ __ अथ गुणाः । मार्जार-नयन-प्रख्य रसोन-प्रतिमं हि वा । कलिलं निर्मलं व्यङ्गं वैदूर्य देवभूषणम् ॥ ७५ ॥ सुतारं धन-मत्यच्छं कलिलं व्यङ्गमेव च । वैयाणां समाख्याता एते पञ्च महागुणाः ॥ ७६ ॥ तयथा,उहिरनिव दीप्तिं योऽसौ सुतार इति गद्यते ॥ ७ ॥
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy