SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ युक्तिकल्पतरोनवमात्पञ्चमं यावत् कलओन समं यदा * | तत्क्रमादुत्तमं जेयं मोक्तिक रत्न-वेदिभिः ॥ ६२ ॥ चतुर्दशाक्षामारभ्य दशसंख्या-विधि क्रमात् । कलञ्जस्य समानं वा (३) मौक्तिकं मध्यमं विदुः ॥ ६३ ॥ आरभ्य विंशतितमात् क्रमात्यञ्चदशावधि । लङ्घयास्ताः कथिता मुक्ता मूल्यञ्च तदनुक्रमात् ॥ ६४ ॥ कलञ्जयमानेन यद्येकं मौक्तिकम्भवेत् । न धार्य नरनाथैस्तु देव-योग्यममानुषम् ॥ ६५ ॥ इत्यं विचार्य यो मुक्तां परिधत्ते नराधिपः । तस्यायुश्च यशो वीर्य विपरौतमतोऽन्यथा ॥ ६६ ॥ इति श्रीभोजराजोये युक्तिकल्पतरौ मुक्तापरीक्षा ॥ अथ वैदर्य परीक्षा कल्पान्तकाल क्षुभिताम्बराशि, निर्हादकल्पा दितिजस्य नादम् । वैदूर्यमुत्पबमनेकवर्णं ; शोभाभिरामं द्युतिवर्ण-वीजम् ॥ ६७ ॥ अविदूर विदूरस्य (४) गिररुत्तङ्ग-रोधसः । कामभूतिक-सौमान-मनु तस्याकरोऽभवत् + :: ६८ ॥ (३) समानत्वात् इति (ख) पुस्तकपाठः । (४) अविदूरे वैदूर्यस्य इति (ग) पुस्तक पाठः । * नवमात् पञ्चमं यावत्-इत्यारभ्य मध्यमम्विदुरित्यन्त श्लोकहयं (क) पुस्तकऽधिक दृश्यते। ___ + कामभूतिकसीमानं इति पाठमनादृत्य ‘काकतालीयसीमान्ते मनौनामाकरौऽभवत्' इत्येवं वृद्धबचनमित्युत्तामल्लिनाथन कुमारसम्भव टौकायान्तदवादि ।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy