SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ ४६० ] स्वोपज्ञोणादिगणसूत्र विवरणम् [ सूत्र-८५१-८५९ काच्छीङो डेरूः ॥ ८५१ ॥ कपूर्वात् शीङक् स्वप्ने, इत्यस्माद् डि एरू: प्रत्ययो भवति । कशेरू :- कन्दविशेषः, वीरुच्च ।। ८५१ ॥ दिव ऋः || ८५२ ॥ दिवृच् क्रीडादौ, इत्यस्माद् ऋः प्रत्ययो भवति । देवा देवरः, पितृव्यस्त्री, अग्निश्च ।। ८५२ ।। सोरसेः ॥ ८५३ ॥ सुपूर्वादसूच् क्षेपणे, इत्यस्माद् ऋः प्रत्ययो भवति । स्वसा - भगिनी ।। ८५३ ॥ नियो डित् ॥ ८५४ ॥ ग् प्रापणे, इत्यस्माद् डिद् ऋः प्रत्ययो भवति । ना - पुरुषः ।। ८५४ ।। सव्यात् स्थः ॥ ८५५ ॥ सव्यपूर्वात् ष्ठां गतिनिवृत्तौ इत्यस्माद् डिद् ऋः प्रत्ययो भवति । सव्येष्ठासारथिः ।। ८५५ ॥ यति - ननन्दिभ्यां दीर्घश्च ॥ ८५६ ॥ प्रयत्ने, यतेर्नञ्पूर्वाद् नन्देश्च ऋः प्रत्ययो भवति, दीर्घश्चानयोर्भवति । यतै याता - पतिभ्रातृभगिनी, देवरभार्या, ज्येष्ठभार्या च । टुनदु समृद्धी, ननान्दा भर्तृभगिनी । नखादित्वान्नञोऽन्न भवति ।। ८५६ ।। शासि - शंसिनी -रु-क्षु-ह-भृ-धृ-मन्यादिभ्यस्तुः ॥ ८५७ ॥ एभ्यः तृः प्रत्ययो भवति । शासूक् अनुशिष्टो, शास्ता - गुरुः, राजा च ; प्रशास्ताराजा, ऋत्विक् च । शंसू स्तुतौ च शंस्ता - स्तौता । णींग् प्रापणे, नेता - सारथिः । रुक् शब्दे, रोता-मेघः । टुक्षुक् शब्दे, श्रोता - मुसलम् । हृग् हरणे, हर्ता-चौरः । टुडुभृ ंग्क् पोषणे च भर्ता - पतिः । धङत् अवध्वंसने, घर्ता-धर्मः । मनिच् ज्ञाने, मन्ता-विद्वान्, प्रजापतिश्च । आदिग्रहणादुपद्रष्टा ऋत्विक्, विशस्ता घातकः इत्यादयोऽपि ।। ८५७ ।। जनकः ।। ८५८ ॥ पातेरिश्च ॥ ८५८ ॥ पांकू रक्षणे, इत्यस्मात् तृः प्रत्ययो भवति, धातोश्चेकारोऽन्तादेशो भवति । पिता मानिभ्राजेलु क् च ॥ ८५६ ॥ आभ्यां तृः प्रत्ययो भवति, लुक् चान्तस्य भवति । मानि पूजायाम्, माता- जननी । भ्राजि दीप्तों, भ्राता - सोदर्यः ।। ८५६ ॥
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy