SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ सूत्र-८४२-८५० ] स्वोपज्ञोणादिगणसूत्र विवरणम् [ ४५६ धृषदिधिष-दिधीषौ च ।। ८४२ ॥ निधृषाट् प्रागल्भ्ये, इत्यस्माद् ऊः प्रत्ययो भवति, दिधिष् दिधीष् इत्यादेशौ चास्य भवतः। दिधिषूः-ज्यायस्याः पूर्वपरिणीता, पुंश्चली च । दिघीषुः ऊढायाः, कनिष्ठाया अनूढा, ज्येष्ठा, पुनर्भूः, आहुतिश्च ।। ८४२ ॥ भ्रमि-गमि-तनिभ्यो डित् ॥ ८४३॥ एभ्यो डिद् ऊः प्रत्ययो भवति । भ्रमूच अनवस्थाने, भ्रः-अक्ष्णोरुपरि रोमराजिः । गम्लु गतो, अग्रेगच्छत्यग्रेगूः-पुरस्सरः । तनूयो विस्तारे, कुत्सितं तन्यते कुतूः-चर्ममयमावपनम् ॥ ८४३ ।। नृति-शृधि-रुषि-कुहिभ्यः कित् ॥ ८४४ ॥ एभ्य: किद् ऊ: प्रत्ययो भवति । नृतैच् नर्तने, नृतूः- नर्तकः, कृमिजातिः, प्लवः, प्रतिकृतिश्च । शृधूङ शब्दकुत्सायाम् , शृधूः-शर्धनः, कृमिजातिः, अपानं, बलिश्च दानवः । रुषंच रोषे, रुष:-भर्त्सकः । कुहणि विस्मापने, कुहूः- अमावास्या ।। ८४४ ॥ तृ-खडिभ्यां डूः ॥ ८४५॥ आभ्यां डूः प्रत्ययो भवति । तु प्लवनतरणयोः, तई :-द्रोणी, प्लवः, परिवेषणभाण्डं च । खडण् भेदे, खड्डू:-बालानामुपकरणम् , स्त्रीणां पादाङ गुष्ठाभरणं च ॥८५४।। तृ-दभ्यां दूः ॥ ८४६॥ आभ्यां दूः प्रत्ययो भवति । तृ प्लवनतरणयोः, तर्दू :-द: । दृश् विदारणे, दर्दू :कुष्ठभेदः ।। ८४६ ॥ काम-जनिभ्यां बूः ॥ ८४७॥ आभ्यां बूः प्रत्ययो भवति । कमूङ कान्तौ, कम्बू:-भूषणम् , आदर्शत्सरुः, कुरुविन्दश्च । जनैचि प्रादुर्भावे, जम्बूः-वृक्षविशेषः ।। ८४७ ॥ शकेरन्धः ॥८४८॥ शक्लृट् शक्ती, इत्यस्मादन्धूः प्रत्ययो भवति । शकन्धूः-वनस्पतिः, देवताविशेषश्च ।।८४८॥ कृगः कादिः॥८४६ ।। डुकृग् करणे, इत्यस्मात् ककारादिरन्धूः प्रत्ययो भवति । कर्कन्धूः-बदरी, व्रणं, यवलाजाः, मधुपर्कः, विष्टम्भश्च ।। ८४६ ।। योरागूः ।। ८५० ॥ युक् मिश्रणे, इत्यस्माद् आगूः प्रत्ययो भवति । यवागूः-द्रवौदनः ।। ८५० ।।
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy