SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ सूत्र - ८६०-८६८ ] स्वोपज्ञोणादिगणसूत्र विवरणम् यज्ञः, [ ४६१ जाया मिगः ॥ ८६० ॥ शब्दपूर्बाद् डुमिन्ट् प्रक्षेपणे, इत्यस्मात् तृः प्रत्ययो भवति । जायां - प्रजायां, मिन्वन्ति तमिति जामाता - दुहितृपतिः || ८६० ।। आपोऽपू च ॥ ८६१ ॥ आप्लृट् व्याप्तौ इत्यस्मात् तृः प्रत्ययो भवति । अप् चास्यादेशो भवति । अप्ताअग्निश्च ॥। ८६१ ॥ नमः प च । ८६२ ॥ मं प्रह्वत्वे, इत्यस्माद् तृः प्रत्ययो भवति, पश्चास्यान्तादेशो भवति । नप्तादुहितुः पुत्रस्य वा पुत्रः ।। ८६२ ।। हु पुग्-गोनी - प्रस्तु- प्रति प्रतिप्रस्थाभ्य ऋत्विज ॥ ८६३ ॥ एभ्य ऋत्विज्यभिधेये तृः प्रत्ययो भवति । हुंक् दानादनयो:, होता । पूग्श् पवने, पोता । मैं शब्दे, जींग-प्रापणे उत्पूर्वः, उद्गाता, उन्नेता । ष्टुंग्क् स्तुतौ प्रपूर्वः प्रस्तोता । हृग् हरणे प्रतिपूर्वः, प्रतिहर्ता । ष्ठां गतिनिवृत्ती, प्रतिप्रपूर्वः प्रतिप्रस्थाता । ते ऋत्विजः ।। ८६३ ॥ नियः षादिः ॥ ८६४ ॥ णीं प्रापणे, इत्यस्मात् षकारादिः तृः प्रत्ययो भवति । ऋत्विज्यभिधेये । नेष्टाऋत्विक् ।। ८६४ ।। त्वष्टृ-क्षत्तृ-दुहित्रादयः ॥ ८६५ ॥ एते तृप्रत्ययान्ता निपात्यन्ते । त्विषेरितोऽच्च । त्वष्टा देववर्धकिः, प्रजापतिः, आदित्यश्च । क्षद खदने सौत्रः, क्षत्ता- नियुक्तः, अविनीतः, दौवारिक:, मुसलः, पारशवः, रुद्रः, सारथिश्च । दुहेरिट् किच्च दुहिता तनया । आदिग्रहणादन्येऽपि । । ८६५ ।। रातेर्डेः डः ॥ ८६६ ॥ क् दाने, इत्यस्माद् डिद् ऐः प्रत्ययो भवति । राः द्रव्यम् । रायौ, रायः ॥ ८६६ । द्यु-गमिभ्यां डोः ॥ ८६७ ॥ आभ्यां डि ओः प्रत्ययो भवति । धुंक् अभिगमे, द्यौ:- स्वर्गः, अन्तरिक्षं च । गम्लृ गतौ, गौः पृथिव्यादिः । ८६७ ।। ग्ला-नुदिभ्यां डौः ॥ ८६८ ॥ आभ्यां : प्रत्ययो भवति । ग्लें हर्षक्षये, ग्लौ:- चन्द्रमाः, व्याधितः, शरीरग्लानिश्च । णुदंत् प्रेरणे, नौ:- जलतरणम् ॥ ८६८ ।।
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy