SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ ___४५८ ] स्वोपज्ञोणादिगणसूत्रविवरणम् -८३३-८४१ मृजेगुणश्च ॥ ८३३॥ मृजौक् शुद्धौ, इत्यस्माद् ऊः प्रत्ययो भवति, गुणश्चास्य भवति । मर्जू:-शुद्धिः, रजकः, नद्यास्तीरं, शिला च । गुण सिद्धे गुणवचनमकारस्य वृद्धिबाधनार्थम् ॥ ८३३ ॥ अजे|ऽन्तश्च ।। ८३४॥ ___ अज क्षेपणे, इत्यस्माद् ऊः प्रत्ययो भवति, जकारश्चान्तो भवति । अज्जूः-जननी ॥ ८३४ ॥ कसि-पद्यादिभ्यो णित् ॥ ८३५॥ एभ्यो णिद् ऊः प्रत्ययो भवति । कस गती, कासूः-शक्ति मायुधम् , वागविकलः, बुद्धिः, व्याधिः, विकला च वाक् । पदिच् गतौ, पादू:-पादुका। ऋक् गती, आरू:-वृक्षविशेषः, कच्छूः, गतिः, पिङ्गलश्च । आदिग्रहणात् कचते:-काचूः । शलतेः-शालूः इत्या. दयोऽपि ॥ ८३५ ॥ अणे?ऽन्तश्च ।। ८३६ ॥ अणेर्धातोणिद् ऊः प्रत्ययो भवति, डश्चान्तः। अण शब्दे, आण्डू:-जलभृङ्गारः ॥ ८३६॥ अडो ल च वा ॥ ८३७॥ अड उद्यमे, इत्यस्माण्णिद् ऊः प्रत्ययो भवति, लश्चान्तादेशो वा भवति । आलूःभृङ्गारः, करकश्च । आडूः-दर्वी, टिट्टिभः, वनस्पतिः, जलाधारभूमिः, पादभेदनं च ।८३७ नजो लम्बेर्नलुक् च ॥ ८३८॥ नपूर्वात् लबुङ, अवस्रसने, इत्यस्माद् णिद् ऊः प्रत्ययो भवति । नकारस्य च लुक् भवति । अलाबूः-तुम्बी ।। ८३८ ॥ कफादीरेले च ॥ ८३६ ॥ ___ कफपूर्वाद् ईरिक् गति कम्पनयोः, इत्यस्माद् ऊः प्रत्ययो भवति, लकारश्चान्ता. देशो भवति । कफेलू:-श्लेष्मातकः, यवलाजाः, मधुपर्कः, छादिषेयं च तृणम् ॥ ८३९ ॥ ऋतो रत् च ॥ ८४०॥ ऋत् घृणागतिस्पर्धेषु, इत्यस्माद् ऊः प्रत्ययो भवति, रत् चास्यादेशो भवति । रतूः-नदीविशेषः, सत्यवाक् , दूतः, कृमिविशेषश्च ।। ८४० ॥ दृभिचपेः स्वरानोऽन्तश्च ॥ ८४१॥ आभ्यां पर ऊः प्रत्ययो भवति, स्वरात् परो नोऽन्तश्च भवति । भैत् ग्रन्थे, इन्भूःसर्पजातिः, वनस्पतिः, वज्रः, ग्रन्थकारः, दर्भणं च । बाहुलकाद् 'म्नां धुड्वर्गेऽन्त्योऽपदान्ते' इति नकारस्य लुग् न भवति । चप सान्त्वने, चम्पू:-कथाविशेषः॥८४१ ।।
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy