SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ सूत्र-८२५-८३२ ] स्वोपज्ञोणादिगणसूत्रविवरणम् [४५७ शब्दे, अस्यादेर्गुग्गुः लोपश्च प्रत्ययादेः, गुग्गुलुः-वृक्षविशेषः, अश्वश्च । कम्पूर्वादनिते?ऽन्तः ह्रश्वश्च प्रत्ययादेः, कमण्डलु:-अमत्रम् ।। ८२४ ।। प्रःशुः॥२५॥ पृश् पालनपूरणयोः, इत्यस्मात् शुः प्रत्ययो भवति । पशु:-बङ क्रिसंज्ञं वक्रास्थि ॥ ८२५ ॥ मस्जीष्यशिभ्यः सुक् ।। ८२६ ॥ एभ्यः कित् सुः प्रत्ययो भवति । टुमस्जोंत् शुद्धौ, 'मस्जेः सः' इति नोऽन्तः, मङ क्षुः-मुनिः । इषश् आभीक्ष्ण्ये, इक्षुः-गुडादिप्रकृतिः। अशौटि व्याप्ती, अक्षुः-समुद्रः, चप्रश्च ॥ ८२६ ॥ तृ-पलि-मलेरक्षुः ॥ ८२७ ॥ एभ्योऽक्षुः प्रत्ययो भवति । तृ प्लवनतरणयोः, तरक्षुः-श्वापदविशेषः । पल गती, मलि धारणे, पलक्षु , मलाश्च वृक्षः ।। ८२७ ।। उले. कित् ॥ ८२८॥ उल दाहे, इत्यस्मात् सौत्रात् किद् अक्षुः प्रत्ययो भवति । उलक्षुः तृणजातिः ।।२८। कृषि-चमि-तनि-धन्यन्दि-सजि-खर्जि-भर्जि-लस्जीयिभ्य ऊः ॥ ८२६ ॥ एभ्य ऊः प्रत्ययो भवति । कृषीत् विलेखने, कर्पू :-कुल्या, अङ्गारः, परिखा, गर्तश्च । चमू अदने, चमूः-सेना । तनूयी विस्तारे, तनूः-शरीरम् । धन शब्दे, धन धान्ये सौत्रो वा, धनूः-धान्यराशिः ज्या, वरारोहा च स्त्रो। अदु बन्धने, अन्दू:-पादकटकः । सर्ज अर्जने, सज:-अर्थः, क्षारः, वनस्पतिः, वणिक च। खर्ज मार्जने च. खज:-कण्ड:, विद्युच्च । भृजङ भर्जने, भ्रस्जीत् पाके वा, भर्जू:-यवविकारः । ओलस्जैति वीडे, लज्जू:लज्जालुः । ईj ईर्ष्यार्थः, ईष्यू :-ईष्यालुः ॥ २९ ॥ फलेः फेल च ॥८३० ॥ फल निष्पत्ती, इत्यस्मादूः प्रत्ययो भवत्यस्य च फेल इत्यादेशो भवति । फेलूःहोमविशेषः ।। ८३०॥ कषेण्ड-च्छौ च षः ॥ ८३१॥ कष हिंसायाम्, इत्यस्माद् ऊः प्रत्ययो भवति । षकारस्य च ण्ड-च्छश्चादेशो भवति । कण्डूः, कच्छूश्च-पामा ।। ८३१ ।। वहेथ् च ।। ८३२॥ वहीं प्रापणे, इत्यस्माद् ऊः प्रत्ययो धश्चान्तादेशो भवति । वधूः-पतिमुपसंपन्ना कन्या, जाया च ।। ८३२ ।।
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy