SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ ४१८ ] स्वोपज्ञोणादिगंणसूत्रविवरणम् [ सूत्र-५१९-५२६ च । कुडवः-मानम् , लत्वे कुलवः-स एव, नालीद्वयं च । कुरत् शब्दे, कुरवः-पुष्पवृक्षजातिः । मुरत् संवेष्टने, मुरव:-मानविशेषः, वाद्यजातिश्च । ष्ठां गतिनिवृत्ती, स्थवःअजावृषः ।। ५१८॥ कैरव-भैरव-मुतव-कारण्डवादीनवादयः ॥ ५१६ ॥ कैरवादयः शब्दा अवप्रत्ययान्ता निपात्यन्ते । कुम्भृगोः कैर-भैरावादेशौ । कैरवंकुमुदम् , भैरवः-भर्गः, भयानकश्च । मिनोते,त् च, मुतव:-मानविशेषः । कृगाऽण्डोऽन्तो वृद्धिश्च, कारण्डवः-जलपक्षी । आङ पूर्वाद् दीडो नोऽन्तश्च । आदीनवः-दोषः। आदिग्रहणात् कोद्रवः-कोटवादयोपि भवन्ति ॥ ५१९ ।। शृणातेरावः ॥ ५२०॥ शश् हिंसायाम् , इत्यस्माद् आवः प्रत्ययो भवति । शराव:-मल्लकः ।। ५२० ।। प्रथेरिवट् पृथ् च ।। ५२१ ॥ प्रथिष् प्रख्याने, इत्यस्मादिवट्प्रत्ययो भवत्यस्य च पृथ् इत्यादेशो भवति । पृथिवीभूः ।। ५२१ ॥ पलि-सचेरिवः ।। ५२२ ॥ पलण् रक्षणे, षचि सेवने, इत्याभ्यामिवः प्रत्ययो भवति । पलिव:-गोप्ता। सचिवः-सहायः ।। ५२२ ।। स्पृशेः श्वः पार च ॥ ५२३ ॥ स्पृशंत् संस्पर्श, इत्यस्मात् श्वः प्रत्ययो भवत्यस्य च पार् इत्यादेशो भवति । पाश्वंस्वाङ्गम् , समीपं च । पार्श्वः-भगवांस्तीर्थङ्करः ।। ५२३ ॥ कुडि-तुडथडेरुवः। ५२४ ॥ एभ्य उवः प्रत्ययो भवति । कुडत् बाल्ये च, कुडुवं-प्रसृतहस्तमानं च। तुडत् तोडने, तुडुवम् अपनेयद्रव्यम् । अड उद्यमे, अडुवः-प्लवः ।। ५२४ ॥ नी-हिण-ध्य-प्या-पा-दा-माभ्यस्त्वः ।। ५२५ ॥ एभ्यः त्वः प्रत्ययो भवति । णींग प्रापणे, नेत्वं-द्यावा-पृथिव्यौ, चन्द्रश्च । हंक दानादनयोः, होत्वं-यजमान , समुद्रश्च । इंण्क् गतौ, एत्वम्-गमनपरम् । ध्ये चिन्तायाम् , ध्यात्वं-ब्राह्मणः । प्यैङ् वृद्धो, प्यात्वं-ब्राह्मणः, समुद्रः, नेत्रं च । पां पाने, पात्वम्-पात्रम् । डुदांग्क दाने, दात्वः-आयुक्तः, यज्वा, यज्ञश्च । मांक माने, मात्वम्-प्रमेयद्रव्यम् ।।५२५।। कृ-जन्येधि-पाभ्य इत्वः ॥ ५२६ ॥ एभ्यः इत्वः प्रत्ययो भवति । डुकृग् करणे, करित्वः-करणशीलः । जनैचि प्रादु.
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy