SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ सूत्र-५२७-५३५ ] स्वपज्ञोणादिगणसूत्रविवरणम् [ ४१९ र्भावे, जनित्वः-लोकः, माता-पितरौ, द्यावा-पृथिव्यौ च । जनित्वं-कुलम् । एधि वृद्धौ, एधित्वः-अग्निः, समुद्रः, शैलश्च पां पाने, पेत्वम्-तप्तभूमिप्रदेशः, अमृतं, नेत्रं, सुखं, मानं च ।। ५२६ ।। पा-दा-वम्यमिभ्यः शः॥ ५२७ ॥ एभ्यः शः प्रत्ययो भवति । पांक रक्षणे, पाशः-बन्धनम् । डुदांग्क् दाने, दाशःकैवर्तः । टुवम् उगिरणे, वंश:-वेणुः । अम गतौ, अंशः-भागः ।। ५२७ ।। कृ-वृ-भृ-वनिभ्यः कित् ॥ ५२८॥ एभ्यः कित् शः प्रत्ययो भवति । डुकृग् करणे, कृशः-तनुः। वृन्ट् वरणे, वृशंशृङ्गबेरम् , मूलकं, लशुनं च । टुडुभृगक पोषणे च, भृशम् - अत्यर्थम् । वन भक्तौ, वशःआयत्तः ।। ५२८ ॥ कोर्वा ॥ ५२६ ॥ कुङ शब्दे, इत्यस्मात् शः प्रत्ययो भवति, स च किद्वा भवति । कुश:-दर्भः । कोशः-सारम् , कुड्मलं च ।। ५२६ ।। क्लिशः के च ।। ५३०॥ क्लिशौश् विबाधने, इत्यस्मात् शः प्रत्ययो भवत्यस्य च के इत्यादेशो भवति । केशाः मूर्धजाः ।। ५३० ।। उरेरशक् ॥ ५३१ ॥ उर गतौ इत्यस्मात् , सौत्राद् अशक् प्रत्ययो भवति । उरशः ऋषिः ।। ५३१ ।। कलेष्टित् ॥ ५३२ ॥ कलि शब्द-संख्यानयोः, इत्यस्मात् टिद् अशक् प्रत्ययो भवति । कलश:- कुम्भः । कलशी दधिमन्थन भाजनम् ।। ५३२ ।। पलेराशः ॥ ५३३ ॥ पल गतौ, इत्यस्माद् आशः प्रत्ययो भवति । पलाश:-ब्रह्मवृक्षः ।।५३३।। कनेरीश्चातः ।। ५३४ ॥ कनै दीप्त्यादौ, इत्यस्माद् आशः प्रत्ययो भवति, ईकारश्चाकारस्य भवति । कोनाश:-कर्षकः, वर्णसङ्करः, कदर्यश्च, तथा लुब्धः कीनाशः स्यात् कीनाशोऽप्युच्यते कृतघ्नश्च । योऽश्नात्यामं मांसं स च कोनाशो यमश्चैव ।। ५३४ ।। कुलि-कनि-कणि-पलि-वडिभ्यः किशः॥ ५३५ ॥
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy