SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञोणादिगणसूत्र विवरणम् कपाट विराट शृङ्गाटप्रपुनाटादयः ॥ १४८ ॥ एते आटप्रत्ययान्ता निपात्यन्ते । कम्पेर्नलोपश्च, कपाट: अररि: जपादीनां पो व:' [ २-३-१०५ ] इति वत्वे-कवाटः । वृङ इत्वं च विराटः- राजा । श्रयतेः शृङग् च, शृङ्गाटं जलजविशेष:, विपणिमार्गश्च । प्रपूर्वात् पुणेर्नश्च प्रपुनाट:- एडगजः । आदिशब्दात् खल्वाटादयो भवन्ति ।। १४८ ।। ३६२ ] [ सूत्र - १४८-१५५ चिरेरिटो भ् च ॥ १४६ ॥ चिरेः सौत्रादिटः प्रत्ययो भवति, भकारश्चान्तादेशो भवति । चिभिटी वालुङ्की ।। १४९ ।। टिण्टश्वर् च वा ॥ १५० ॥ चिरेष्टिfदण्टः प्रत्ययो भवति, चर् इति चास्यादेशो वा भवति । चरिण्टी चिरिण्टी च प्रथमवयाः स्त्री ।। १५० ।। तृ- कृ - कृषि - कम्पि - कृषिभ्यः कीटः ॥ १५१ ॥ एभ्यः किटिः प्रत्ययो भवति । तॄ प्लवनतरणयोः, तिरीटं कूलवृक्षः, मुकुटं वेष्टनं च । कृत् विक्षेपे किरीटं मुकुट, हिरण्यं च । कृपोङ, सामर्थ्ये, कृपीटं हिरण्यं जलं च । कपुङ चलने, कम्पीटं-कम्पः, कम्प्रं च । कृषींत् विलेखने, कृषीटं जलम् ।। १५१ ।। खजेररीटः || १५२ ॥ खञ्जु गतिवैकल्ये, इत्यस्मादरीटः प्रत्ययो भवति । खञ्जरीट खञ्जनः ।। १५२॥ ग-ज-द-व-भृभ्य उट उडश्च ॥ १५३ ॥ एभ्य उट उडश्च प्रत्ययो भवतः । भिन्नविभक्तिनिर्देश उटस्योत्तरत्रानुवृत्त्यर्थः । अप्रकृतस्यापि उडस्य विधानमिह लाघवार्थम् । गृश् शब्दे, गरुट: - गरुडश्च - गरुत्मान् जुष्च् जरसि, जरुटः, जरुडश्च वनस्पतिः । दृश् विदारणे, दरुट: दरुडश्च बिडालः । वग्श् वरणे, वरुटः वरुडश्च मेषः । भृष् भर्जने च, भरुट: भरुडश्च मेष एव ।। १५३ ।। मङ्कर्मकमुकौ च ॥ १५४ ॥ कुङ मण्डने, इस्यस्मात् उटः प्रत्ययो भवति, मक मुक इत्यादेशौ चास्य भवतः । मकुट: मुकुटश्च किरीट: ।। १५४ ।। कुट कुक्कुटोत्कुरुट-मुरुट- पुरुटादयः ॥ १५५ ॥ एते उटप्रत्ययान्ता निपात्यन्ते । नृतेः कश्च नर्कुट :- बन्दी । कुकेः कोऽन्तश्च, कुक्कुट :- कृकवाकः । उतपूर्वात् कृगः, कुर् च उत्कुरुटः कचवारपुञ्जः । मुरिपुर्योर्गुणाभावश्च, मुरुटः यत् वेण्वादिमूलमृजुकतु न शक्यते । पुरुटः- जलजन्तुः । आदिशब्दात् स्थपुटादयो भवन्ति ।। १५५ ।।
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy