SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ सूत्र-१५६-१६५ ] स्वोपज्ञोणादिगणसूत्रविवरणम् [ ३६३ दुरो द्रः कूटश्च दुर् च ॥ १५६ ॥ दुपूर्वात् दृणातेः किदूट उठश्च प्रत्ययो भवतः । दुर् चास्यादेशो भवति । दुर्दु. रूट:-दुर्मुखः, दुई रुट: देशकालवादी ॥ १५६ ।। वन्धेः॥ १५७॥ बन्धंश् बन्धने, इत्यस्माद् कित उटः प्रत्ययो भवति । वधूटी-प्रथमवयाः स्त्री ।१५७ चपेरेटः ॥ १५८ ॥ चप् सांत्वने, इत्यस्मादेट: प्रत्ययो भवति । चपेटः चपेटा वा-हस्ततलाहतिः ।१५८ ग्रो णित् ॥ १५ ॥ गृत् निगरणे, इत्यस्मात् णिदेट: प्रत्ययो भवति । गारेट:-ऋषिः ॥१५९ ॥ कृ-शक शाखेरोटः ।। १६०॥ .. एभ्य ओटः प्रत्ययो भवति । हुकृग् करणे, करोटः भृत्यः, शिरः, कपालं च, करोटं-भाजनविशेषः । शक्लृट् शक्ती, शकोट:-बाहुः । शाख श्लाख व्याप्ती, शाखोट: वृक्षविशेषः ॥ १६० ॥ कपोट-वकोटामोट-कर्कोटादयः ॥ १६१ ॥ ___एते ओटप्रत्ययान्ता निपात्यन्ते । कवृद्ध वर्णे, पश्च, कपोट:-वर्णः, कितवश्च । वचे कश्च, वकोट: वकः । अश्नातेः सश्च परादिः, अक्षोट:-फलवृक्षः । कृगः-कोऽन्तश्च, कर्कोटः-नागः। आदिशब्दादन्येऽपि भवन्ति ॥ १६१ ॥ वनि-कणि-काश्युषिभ्यष्ठः ॥ १६२ ॥ एभ्यष्ठप्रत्ययो भवति । वन भक्ती, वण्ठः अनिविष्टः । कण शब्दे, कण्ठः-कन्धरा। काशृङ दीप्तौ, काष्ठं-दारु, काष्ठा-दिक् अवस्था च । उषू दाहे, ओष्ठः-दन्तच्छदः ।१६२ पी-विशि-कुणि-पृषिभ्यः कित् ॥ १६३ ॥ एभ्यः कित् ठः प्रत्ययो भवति । पीङ च पाने, पीठम्-आसनम् । विशंत् प्रवेशने, विष्ठा-पुरीषम् । कुणत् शब्दोपकरणयोः, कुण्ठः-अतीक्ष्णः पृषू सेचने पृष्ठः-अङ कुशः, शरीरैकदेशश्च ।। १६३ ॥ कुषेर्वा ॥ १६४ ॥ कुषश् निष्कर्षे, इत्यस्मात् ठः प्रत्ययो भवति स च वा कित् भवति । कुण्ठंव्याधिः गन्धद्रव्यं च, कोष्ठः-कुशूलः, उदरं च ॥ १६४ ॥ शमेलुकच वा ॥ १६५ ॥
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy