SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ सूत्र--१४२-१४७ ] स्वपज्ञोणादिगणसूत्र विवरणम् [ ३६१ एते टप्रत्ययान्ता निपात्यन्ते । हन्तेर्घघाघनश्च घटा वृन्दम् । घाटा स्वाङ्गम् । घण्टा वाद्यविशेषः । आदिग्रहणात् छटादयो भवन्ति ।। १४१ ।। दिव्यविश्रु कु कवि शकिकङ्कि कृषि चपि चमि-कम्येधि-ि तृ-कृ-सृ-भृ-त्रृ-भ्यो-ऽटः ॥ १४२ ॥ एभ्योऽटः प्रत्ययो भवति । दिवच् क्रीडादी, देवट: देवकुल विशेषः, शिल्पी च । अव रक्षणादौ, अवट:-प्रपातः कूपश्च । श्रुं श्रवणे, श्रवटः छत्त्रम् कुंक् शब्दे, कवट:उच्छिष्टम् । कर्ब गतौ कर्बटक्षुद्रपत्तनम् । शक्लृट् शक्तौ शकटम् अनः । ककुङ गतौ, कङ्कटः-सन्नाहः । कङ्कटं सीमा । कृपौङ सामर्थे कर्पट - वासः । चप सान्त्वने, चपट:- रसः । चमू अदने, चमटःघस्मरः । कमूङ कान्तौ कमट:- वामनः । एधि वृद्धौ, एघटः वल्मीकः । कर्कि-मर्की-सौत्रौ । कर्कट :- कपिलः, कुलीरश्च, कर्कटी-त्रपुसो । मर्कटः कपिः, क्षुद्रजन्तुश्च । कक्ख हसने, कक्खटः कर्कशः । तू प्लवनतरणयोः तरटः पीनः । डुकृंग् करणे, करटः काकः, करिकपोलश्च । सृ गतौ, सरट : कृकलासः । टुडुभृग्क् पोषणे च भरटः प्लवविशेषः भृत्यः, कुलालश्च । वृग्ट् वरणे, वरटः क्षुद्रधान्यम्, प्रहारश्च ।। १४२ ॥ E कुलि-विलिभ्यां कित् ॥ १४३ ॥ आभ्यां किदटः प्रत्ययो भवति । कुल बन्धुसंस्त्यानयोः, कुलटा- बन्धकी । विलत् विरणे, विलानदी ।। १४३ ॥ कपट - कीकटादयः ॥ १४४ ॥ कपटादयः शब्दा अटप्रत्ययान्ता निपात्यन्ते । कम्पेर्नलोपश्च, कपटं. माया । ककेरत ईच्च, कीकट: कृपण: । आदिग्रहणात् लघटपर्पटादयो भवन्ति ।। १४४ ॥ अनि-शृ-प-वृ ललिभ्य आटः ।। १४५ ।। भ्य आटः प्रत्ययो भवति । अनक् प्राणने, अनाट:- शिशुः । शृश् हिंसायाम्, शराटः शकुन्तः । पृश् पालनपूरणयोः, पराट आयुक्तकः । वृङश् संभक्तौ वराटः सेवकः । ललिण् ईप्सायाम्, ललाटम्, अलिकम् ।। १४५ ॥ 1 सृ सृपेः कित् ॥ १४६ ॥ आभ्यां किदाटः प्रत्ययो भवति । सृ गतौ, स्राटः पुरःसरः । सृप्लू ं गतो, सृपाटः अल्पः, कुमुदादिपत्त्रं च । सृपाटी - उपानत्, कुप्यम् अल्पपुस्तकश्च ।। १४६ ॥ किरो लश्व वा ॥ १४७ ॥ किरते: किदाटः प्रत्ययो भवति लश्चान्तो वा भवति । किलाटो-भक्ष्यविशेषः किराटो वणिक्, म्लेच्छश्च ।। १४७ ।।
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy