SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ पाद-३, सूत्र-६२-६८ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः [२८७ उत्पूर्वान्नयतेर्भावाऽकोंर्वा घञ् भवति । उन्नायः, उन्नयः ॥६१।। अवात् ॥ ५. ३. ६२॥ अवपूर्वान्नयते वाऽकोंर्घञ् भवति । प्रवनायः ।।६२॥ परेद्य ते ॥ ५. ३. ६३ ॥ परिपूर्वान्नयते तविषये धात्वर्थे वर्तमानाद् भावाऽकोंर्घञ् भवति । परिणायेन शारीन् हन्ति, समन्तान्नयनेनेत्यर्थः । द्यूत इति किम् ? परिणयः कन्यायाः॥६३॥ भुवोऽवज्ञाने वा ॥ ५. ३. ६४ ॥ परिपूर्वाद् भवतरेवज्ञानेऽर्थे वर्तमानाद् भावाकळपञ् वा भवति । अवज्ञानम. सत्कारपूर्वकोऽवक्षेपः। परिभावः, परिभवः । अवज्ञान इति किम् ! समन्ताद् भवनं परिभवः ॥६४॥ यज्ञे ग्रहः ॥ ५. ३. ६५॥ परिपूर्वाद् अहेर्यज्ञविषये प्रयोगे भावाऽकोंर्घन भवति । पूर्वपरिग्राहः, उत्तरपरिग्राहः, वेदेर्यज्ञाङ्गभूताया ग्रहणविशेष एताभ्यामभिधीयते । यज्ञ इति किम् ? परिग्रहः कुटुम्बिनः ॥६५॥ संस्तोः ॥ ५. ३. ६६ ॥ संपूर्वाद स्तोतेर्भावाऽक?र्यज्ञविषये घञ् भवति । संस्तुवन्त्यत्रेति संस्तावश्छन्दोगानाम्, समेत्य स्तुवन्ति छन्दोगा यत्र देशे स देशः संस्ताव उच्यते। यज्ञे इत्येव ? संस्तवोऽन्यदृष्टे ॥६६॥ प्रात् न -P-स्तोः ॥ ५. ३. ६७॥ प्रात् परेभ्यः स्रवत्यादिभ्यो भावाऽकोंर्घञ् भवति । प्रस्रावः, प्रद्रावः, प्रस्तावः । प्रादिति किम् ? स्त्रवः, द्रवः, स्तवः । कथं साव: ? बहुलाधिकारात् ॥६७।। अयज्ञे स्त्रः॥ ५. ३. ६८ ॥ प्रपूर्वात् 'स्तृ' इत्येतस्मात् धातो वाऽकत्रोघञ् भवति । अयज्ञे-न चेत् यज्ञविषयः प्रयोगो भवति । प्रस्तारः, मणिप्रस्तारः, विमानप्रस्तारः, नयप्रस्तारः। अयज्ञ इति किम् ? बहिप्रस्तरः, “समासेऽसमस्तस्य" (२-३-१३) इति षत्वम् ॥६॥
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy