SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २८८ ] बृहद्वृत्ति-लघुन्याससंवलिते [ पाद- ३, सूत्र - ६९-७५ वेरशब्दे प्रथने ॥ ५ ३. ६१ ॥ प्रथनं विस्तीर्णता, वेः परात् स्तृणातेरशब्दविषये प्रथनेऽभिधेये घञ् भवति । विस्तार: पटस्य । प्रथन इति किम् ? तृणस्य विस्तरः, छादनमित्यर्थः । अशब्द इति किम् ? अहो द्वादशाङ्गस्य विस्तरः ||६६ । छन्दोनाम्नि ॥ ५. ३. ७० ॥ छन्द:- पद्यो वर्णविन्यासः विपूर्वात् स्तृणातेश्छन्दोनाम्नि विषये घञ् भवति । विष्टारपङ्क्तिः । केचित् तु वेरन्यतोऽपीच्छन्ति आस्तारपङ्क्तिः, प्रस्तारपङ्क्तिः, छन्दो नाम ।।७० ।। न्या० स०- छन्दोनाम्नि विष्टारपङ्क्तिरिति - पङ क्त्यन्तं छन्दोनामेति वावया वस्थायां घञ न तेन विस्तरश्चासौ पङक्तिश्चेति कर्म्मधारयः, षष्ठीपञ्चमीतत्पुरुषो वा । क्षु-श्रोः ॥ ५, ३. ७१ ॥ क्षौतेः शृणोतेश्व विपूर्वाद् भावाऽकर्त्रीर्घञ् भवति । विक्षाब:, विभावः । वेरित्येव ? क्षवः, श्रवः ।।७१ ॥ न्युदो ग्रः ॥ ५, ३. ७२ ॥ युद्भ्यां पराद् गिरतेगृणातेर्वा भावाऽकर्त्रीर्घञ् भवति । निगारः, उद्गारः । न्युद इति किम् ? गरः, संगरः ॥७२॥ न्या० स० - न्युदो ग्रः -संगर इति - संगीर्यतेऽभ्युपगम्यते योद्धृभिर्युद्धं संगरणं वा तदा प्रतिज्ञा । किरो धान्ये ॥ ५. ३, ७३ ॥ न्युत्पूर्वात् किरतेर्धान्यविषये धात्वर्थे वर्तमानाद् भावाऽकत्रेर्घञ् भवति । निकारो धान्यस्य, उत्कारो धान्यस्य, राशिरित्यर्थः । धान्य इति किम् ? फलनिकरः, पुष्पोत्करः ॥७३ न्या० स० - किरो धा-निकारस्तिरस्कार इति तु करोतेर्घञ् । नेर्बुः ॥ ५. ३. ७४ ॥ पूर्वात् वृणोतेर्वृणातेर्वा धान्यविशेषेऽभिधेये भावाऽकर्त्रीर्घञ् भवति । निव्रियन्त इति - नीवारा नाम व्रीहिविशेषाः, "घञ्युपसर्गस्य बहुलम् ” ( ३-२-८६ ) इति दीर्घत्वम् । धान्य इत्येव ? निवरा कन्या, स्वभावादलन्तोऽप्ययं स्त्रियां वर्तते, क्तिस्तु बहुलाधिकारान्न भवति ॥ ७४ ॥ इणोऽभ्रेषे ।। ५. ३. ७५. ॥
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy