SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ पाद-१, सूत्र-९५-९८ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचऽमोध्यायः [२२९ दण्डादोन वर्जयित्वा आयुधादिभ्यः कर्मभ्यः परात् धृगो धातोरच भवति । धनुर्धरति-धनुर्धरः, शक्तिधरः, चक्रधरः वज्रधरः, शूलधरः, हलधरः । प्रादिग्रहणाद् भूधरः, जलधरः, विषधरः, शशधरः विद्याधरः, श्रीधरः, जटाधरः, पयोधरः । बहुवचनाद् यथादर्शनमन्येभ्योऽपि भवति । अदण्डादेरिति किम् ? दण्डधारः, कुण्डधारः, काण्डधारः, कर्णधारः, सूत्रधारः, छत्रधार ।।६४॥ __न्या० स०-प्रायुधादि-दण्डादीनां वर्जनात्तेभ्योऽण् निणिन्ये, अन्यथा युधादिद्वारोऽच् प्रत्ययोऽपि स्यादिति संदेहः स्यात् । हगो वयो-ऽनुद्यमे ॥ ५. १. १५ ॥ कर्मणः पराद्धरतेर्वयसि अनुद्यमे च गम्यमाने अच् भवति । प्राणिनां कालकृतावस्था क्य, उद्यम उत्क्षेपणम्, आकाशस्थस्य वा धारणम्, तदभावोऽनुद्यमः । अस्थिहरः श्वशिशुः, कवचहरः क्षत्रियकुमारः । अनुद्यमे अंशहरो दायादः, मनोहरः प्रासादः, मनोहरा माला । संज्ञायां टोऽपीति कश्चित्-मनोहरी विषहरी मणिः । वयो-ऽनुद्यम इति किम् ? भारहारः । वयसि क्रियमाण: संभाव्यमानो वोद्यम उच्यमानो वयो गमयतीति उद्यमार्थ वयोग्रहणम् ।। ९५ ।। न्या० स०-हगो वयो-क्रियमाण इति-क्रियमाणतया संभाव्य मान इत्यर्थः । संभाव्यमानो वेति-अकुर्वन्नपि, ततः कर्मास्मिन् , कर्मणि अयं शक्त इत्येवं संभाव्यमान इत्यर्थः । वयोग्रहणमिति-नन्वत्र वयोग्रहणं किमर्थम् ? इत्याह-उद्यमार्थमिति, अयमर्थो यत्र वयस्तत्रोद्यमेऽसत्यपि भवतीत्यर्थ , यथा कवचहर इत्यादौ । आङः शीले ।। ५.१.१६ ॥ कर्मणः परादाङपूर्वाद्धरतेः शीले गम्यमानेऽच् प्रत्ययो भवति, शीलं स्वाभाविकी प्रवृत्तिः । पुष्पाण्याहरतीत्येवंशील:-पुष्पाहरः, फलाहरः, सुखाहरः, पुष्पाद्याहरणे स्वाभाविकी फलनिरपेक्षा वृत्तिरस्येत्यर्थः । आङ इति किम् ? पुष्पाणि हर्ता, तृन् । शील इति किम् ? पुष्पाहारः। 'सुखाहरः' इत्यशीलेऽनुद्यमेऽर्थे पूर्वेणाच् । लिहादिप्रपञ्चः प्रकरणमिदम् ॥१६॥ न्या० स०-प्राङः शोले-ननु लिहादिगणे एव धातूपपदार्थनियमः क्रियतां, किममीभिः सूत्रः ? इत्याह-लिहादिप्रपञ्च इति । दृति नाथात् पशाविः ।। ५. १. १७ ॥ प्राभ्यां कर्मभ्यां पराद्धरतेः पशौ कर्तरि 'इ.' प्रत्ययो भवति । दृति हरति-दृतिहरिः श्वा, नाथहरिः सिंहः । पशाविति किम् ? दृतिहारो व्याधः, नाथहारी गन्त्री ॥७॥ रजः-फले-मलाद ग्रहः ॥ ५. १. १८ ॥
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy