SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २२८ ] बृहद्वृत्ति लघुन्याससंवलिते [पाद-१, सूत्र-८८-६४ राजघः॥ ५. १.८८॥ राज्ञः कर्मणः पराद्धन्तेष्टक् प्रत्ययो घादेशश्च निपात्यते । राजानं हन्तिराजघः ।।८८॥ पाणिघ-ताडघौ शिल्पिनि ॥ ५. १. ८१ ॥ पाणि-ताडाभ्यां कर्मभ्यां पराद्धन्तेः शिल्पिनि कर्तरि टक् घादेशश्च निपात्यते । पाणि हन्ति पाणिघः, ताडवः शिल्पी। पाणिना ताडेन च हन्तीति करणादपि केचित् । शिल्पिनीति किम् ? पाणिघातः, ताडघातः ।।८।। कुक्ष्यात्मोदरात् भृगः खिः ॥ ५. १. १० ॥ एभ्यः कर्मभ्यः परात् भृगो धातोः खिः प्रत्ययो भवति । कुक्षिमेव बिति-कुक्षिभरिः, प्रात्मभरिः, उदरंभरिः । उदरात् केविदेवेच्छन्ति । खकारो मागमार्थः ॥१०॥ अर्होऽच् ॥ ५. १. ११ ॥ कर्मणः परादहतेरच् प्रत्ययो भवति, प्रणोऽपवादः । पूजामहति-पूजाह', साधुः, पूजाऱ्या प्रतिमा ॥१॥ धनु-दण्ड-त्सरु लागला-कुशष्टि-यष्टि शक्ति-तोमर घटाद् ग्रहः ॥५. १. १२ ॥ एभ्यः कर्मभ्यः पराद् ग्रहेरच् प्रत्ययो भवति । धनुगृह्णाति-धनुर्ग्रहः, दण्डग्रहः, त्सरुग्रहः, लाङ्गलग्रहः, अङ्कुशग्रहः, ऋष्टिग्रहः यष्टि ग्रहः, शक्तिग्रहः, तोमरग्रहः, घटग्रहः, * नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् * इति-घटीग्रहः । अणपीत्येके-'धनुाहः, दण्डग्राहः' इत्यादि चोदाहरन्ति ॥९२।। सूत्राद्धारणे ॥ ५. १.१३॥ सूत्रं कर्पासादिमयं लक्षणसूत्रं वाऽविशेषण गृह्यते । सूत्रात कर्मणः पराव आहेर्ग्रहणपूर्वके धारणेऽर्थे वर्तमानादच् प्रत्ययो भवति । . सूत्रं गृह्णाति-सूत्रग्रहः प्राज्ञः सूत्रधारो वा, सूत्रमुपादाय धारयतीत्यर्थः । अन्ये त्ववधारणे एवेच्छन्ति, तन्मते-सूत्रग्रहः प्राज्ञ एवोच्यते । धारण इति किम् ? सूत्रग्राहः, यो हि सूत्रं गृह्णाति न तु धारयति स एवमुच्यते ॥३॥ न्या० स०-सूत्राद्धारणे-अन्ये त्ववधारण एवेति-तन्मते यः सूत्रं धारयत्येव तत्रैवाच् , सूत्रधारस्तु प्रयोजने एव गृह्णाति न तु सर्वकालम् । आयुधादिभ्यो धृगोऽदण्डादेः॥ ५. १. १४ ॥
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy