SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २३० ] बृहद्वृत्ति-लघुन्याससंवलिते [पाद-१, सूत्र-९९-१०३ एभ्यः कर्मभ्यः पराद् ग्रहेरिर्भवति । रजोग्रहिः कञ्चुकः, फलेग्रहिर्वक्षः, सूत्रनिर्देशादेत्वम्। मलग्रहिः कम्बलः । रजो-मलाभ्यां केचिदेवेच्छन्ति ।।१८।। देव-वातादापः ॥ ५. १. ११ ॥ देव-वाताभ्यां कर्मभ्यां परादापेर्धातोरिः प्रत्ययो भवति । देवानाप्नोति देवापि:. वातापि: HEEN शकृत् स्तम्बाद वत्स-वीही कृगः ॥ ५. १. १००॥ शकृत्-स्तम्बाभ्यां कर्मभ्यां परात कृगो यथासंख्यं वत्से वीहौ च कर्तरि 'इ:' प्रत्ययो भवति । शकृत्करिर्वत्सः, स्तम्बकरिवाहिः । वत्स-बीहाविति किम् ? शकृत्कारः, स्तम्ब. कारः ॥१०॥ किं-यत्-तद् बहोरः ॥ ५. १. १०१ ॥ __एभ्यः कर्मभ्यः परात् करोतेरः प्रत्ययो भवति । कि करोति-किंकरः, किंकरा, यत्करः, यत्करा, तत्करः, तत्करा, चौय-तस्करः । बहुकरः, बहुकरा; बहुकरीति संख्यावचनादुत्तरेण टः । जातिरिदानी किंकरीति हेत्वादौ टः ॥१०१॥ संख्याऽ-ह-दिवा-विभा-निशा-प्रभा-भाश्चित्र-कर्नाद्यन्ता-ऽनन्त-कारबाह्वरुधनुर्नान्दी-लिपि-लिबि-बलि-भक्ति-क्षेत्र-जङ्घा-क्षपा-क्षणदा-रजनि दोषा-दिन-दिवसाट्टः॥ ५. १. १०२ ॥ ___ संख्येत्यर्थप्रधानमपि, तेनैकादिपरिग्रहः, एभ्यः कर्मभ्यः परात् करोतेष्टः प्रत्ययो भवति । अहेत्वाद्यर्थ आरम्भः । संख्यां करोति-संख्याकरः, एककरः, द्विकरः, त्रिकरः। अहस्करः, दिवाकरः, विभाकरः, निशाकरः, प्रभाकरः, भास्करः, चित्रकरः, कर्तृकरः, प्रादिकरः, अन्तकरः, अनन्तकरः कारकरः, बाहकरः, अरुष्करः, धनुष्करः, नान्दीकरः, लिपिकरः, लिबिकरः, बलिकरः, भक्तिकरः, क्षेत्रकरः, जङ्घाकरः, क्षपाकरः, क्षणदाकरः, रजनिकरः, रजनीकरः, दोषाकरः, दिनकरः, दिवसकरः । टकारो ड्यर्थः-संख्याकरी ॥१०२।। हेतु-तच्छीला-नुकूलेऽशब्द-श्लोक कलह-गाथा-वैर-चाटु-सूत्र मंत्र-पदात् ॥ ५.१.१०३ ॥ हेतुः प्रतीतशक्तिकं कारणम्, तच्छीलं तत्स्वभावः, अनुकूल प्राराध्यचित्तानुवर्ती, एषु कर्तृषु शब्दादिवजिताव कर्मणः पराव करोतेष्ट: प्रत्ययो भवति । हेतौ-यशः करोति-यशस्करी विद्या, शोककरी कन्या, कुलकरं धनम् । तच्छीले
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy