SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ [ पा० २. सू० ८०-८४.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५८७ नरे ॥ ३.२.८० ॥ विश्वशब्दस्य नरशब्दे उत्तरपदे नाम्नि विषये दीर्घोऽन्तादेशो भवति । नर इति किम् ? विश्वसेनः । विश्व नरा अस्य विश्वानरो नाम कश्चित् । नाम्नीत्येव विश्वनरो राजा ।। ८० ।। वसुराटो ॥ ३.२. ८१ ॥ पृथग्योगान्नाम्नीति निवृत्तम्, विश्वशब्दस्य वसौ, राटि चोत्तरपदे दीर्घोऽन्तादेशो भवति । विश्व वस्वस्य विश्वावसुः, विश्वस्मिन् राजते इति विश्वाराट् ! राडिति विकृतनिर्देशादिह न भवति । विश्वराजौ, विश्वराजः ।। ८१ ॥ वलच्यपित्रादेः ॥ ३. २. ८२ ॥ वलच्प्रत्यये परे पित्रादिवर्जितानां स्वरान्तानां शब्दानां दीर्घोऽन्तादेशो भवति । प्रसुतिः सुरा साऽस्यास्तीत्यासुतीवलः, एवम् कृषीवलः, दन्तावलः, उत्सङ्गावलः, पुत्रावलः । अपित्रादेरिति किम् ? पितृवलः, मातृवलः, भ्रातृवलः, उत्साहवल: । चकारः किम् ? उत्तरपदे माभूत् कायवलम्, नागवलम् ।। ८२ ॥ न्या० स० - वलच्य० । श्रसवनमासुतिः 'समिरणासुग: ' [ ५. ३. ९३.] क्ति: प्रत्ययः । कृष्यादिभ्यो वलच् । चकारः किमिति * प्रत्ययाऽप्रत्यययोः इति न्यायस्तु कादाचित्क इत्याह- उत्तरेति । ३. २. ८२ ॥ 5 स्वामिचिह्नस्याविष्टाष्टपञ्चभिन्नच्छिन्नच्छिद्रसवस्वस्तिकस्य कर्णे ॥। ३. २. ८४ ॥ स्वामी चिन्यते येन तत्स्वामिचिह्नम्, तद्वाचिनो विष्टादिवर्जितस्य 10 15 चिते' कचि ॥ ३.२. ८३ ॥ चितिशब्दस्य कचि प्रत्यये परे दीर्घोऽन्तादेशो भवति । एका20 चितिरस्मिन् एकचितीकः, द्विचितीकः, त्रिचितीकः ।। ८३ ।।
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy