________________
५८६ ]
बृहवृत्ति-लघुन्याससंवलिते
[पा० २. सू० ७८-७९.]
अनजिरादिबहुस्वरशरादीनां मतौ ॥ ३. २. ७८ ॥
अजिरादिवजितबहस्वराणां शरादीनां च मतौ प्रत्यये दीर्घोऽन्तादेशो भवति, नाम्नि । बहुस्वर,-उदुम्बरावती, मशकावती, वीरणावती, पुष्करावती, अमरावती, शरादि,-शरावती, वंशावती, शुचीमती, कुशावती, धूमावती, अहीवती, कपीवती, मुनीवती, मणीवती, वार्दावान्नाम गिरिः, 5 वेटावान्नाम गिरिः । शर, वंश, शुचि, कुश, धूम, अहि, कपि, मुनि, मणि, वार्द वेट इति शरादिः। बहुवचनमाकृतिगणार्थम् । तेन ऋषीवती, मृगावती, पद्मावती, वातावती, भोगावतीत्यादि सिद्धम् । बहुस्वरशरादीनामिति किम् ? व्रीहिमती, इक्षुमती, द्रमती, मधुमती । बहुस्वरस्यानजिरादिविशेषणं किम् ? अजिरवती, खदिरवती, खपुरवती,10 स्थविरवती, पुलिनवती, मलयवती, हंसकारण्डववती, चक्रवाकवती, अलंकारवती, शशाङ्कवती । हिरण्यवती, अजिरादिराकृतिगणः । नाम्नीत्येव ? वलयवती कन्या, शरवती तूणा ।। ७८ ॥
न्या० स०-अनजिरा०। उदुम्बरावतीति उदुम्बराः सन्त्यस्यामित्यादिश्चातुरथिको नद्यां मतुः 'नाम्नि' [ २. १. ६५. ] इति मस्य वः । पुष्करावतीति पुष्करशब्दात्15 मत्वर्थवर्ज मतुः मत्वर्थे तु 'पुष्करादेर्दशे' [७. २. ७०.] इतीन् स्यात् । शुचीमती इत्यत्र शुचिरस्त्यस्यां नोादित्वाद् वत्वाभावः। वार्दावानिति वारं ददातीति 'पातो ड' [५. १. ७६. ] इति ड: वार्दा मेघास्ते सन्त्यत्र 'मध्वादे:' [ ६. २. ७३. ] इति मतुः । वेटावानिति वेटन्ति पक्षिभिरऽचि वेटा वृक्षास्ते सन्त्यत्र । मलयवतीति मलयस्य पर्वतस्य अदूरभवा 'नद्यां मतुः' [ ६. २. ६२. ] हंसकारण्डववतीति हंसश्च कारण्डवश्च हंसका-20 रण्डवावस्यां स्तः मतुः । यदा हंसकारण्डवतीति दृश्यते । तदा करण्ड : 'प्रज्ञादिभ्योऽण्' [७. २. १६५.] हंसस्य कारण्डः हंसकारण्डः । चक्रवाकवतीति चक्रस्येव वाको वाग्यस्य चक्रशब्देनोच्यते वा घन ॥ ३. २. ७८ ।।
ऋषौ विश्वस्य मित् ॥ ३. २. ७६ ॥
विश्वशब्दस्य मित्त्रे उत्तरपदे, ऋषावभिधेये नाम्नि विषये,25 दीर्घोऽन्तादेशो भवति । विश्वामित्रो नामर्षिः। ऋषाविति किम् ? विश्वमित्रो माणवकः नाम्नीत्येव ? विश्व मित्रमस्य विश्वमित्रो मुनिः ।। ७६ ॥