SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ ५८८ ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० २. सू० ८४.] कर्णशब्दे उत्तरपदे परे दीर्घोऽन्तादेशो भवति । दात्रमिव दात्रम्, दात्रं चिह्न कर्णे यस्य स दात्रमिव वा कणौं यस्य स दात्राकर्णः पशुः, एवं शङ्ककर्णः, द्विगुणाकर्णः, द्वयगुलाकर्णः। स्वामिचिह्नस्येति किम् ? शोभनकर्णः । स्वामिग्रहणं किम् ? लम्बकर्णः अविद्धकर्णः, शिशुः । चिह्नग्रहणं किम् ? वाहनस्य कर्णः वाहनकर्णः विष्टादिवर्जनं किम् ? विष्टकर्णः, अष्टकर्णः, 5 पञ्चकर्णः, भिन्नकर्णः, छिन्नकर्णः, छिद्रकर्णः, स्रवकर्णः, स्वस्तिककर्णः । कर्ण इति किम् ? चक्रसक्थः ।। ८४ ।। न्या० स०--स्वामि०। चिह्न करोति णिज् ततः स्वामी चिह्नयते येन 'वर्षादयः क्लीबे' [५. ३. २६.] इत्यल् । तद्वाचिन इति कर्णस्य यथा स्वरूपेण ग्रहणं नैवं स्वामिचिह्नस्य । एतच्च विष्टादीनां चिह्नवाचिनां दीर्घप्रतिषधात् ज्ञायते ।10 स्वरूपग्रहणे हि विष्टादीनां प्रतिषेधो व्यर्थः स्यात् । द्विगुणाकर्ण इति द्विगुणं चिह्न कणे यस्य । द्वयगुलाकर्ण इति द्वे अङ गुले मानमस्य द्वे अङ गुली मानमस्येति वा वाक्ये तद्धितप्रत्यये विषयभूते 'संख्याव्ययादङ गुले:' [ ७. ३. १२४. ] इति डः । पश्चान्मात्र, 'द्विगो: संशये च' [७. १. १४४.] इति लुप् द्वयङ गुलं कर्णयोर्यस्य यद्वा द्वयोरङ गुल्यो: समाहारः ‘संख्याव्ययादङ गुलेर्डः' [७. ३. १२४.] द्व्यङ गुलं15 कणे यस्य । शोभनकर्ण इति शोभनत्वमनेकविधमिति तच्चिह्नमपि न भवति । लम्बकर्णत्वं त्वेकविधमिति चिह्न भवति परं न स्वामिनः इति परस्परं सादृश्यं नास्ति । वाहनकर्ण इति उह्यते तेन करणेऽनट् 'वाह्याद्वाहनस्य' [२. ३. ७२.] इति निर्देशाद् दीर्घः । यद्वा वहनमेव 'प्रज्ञादिभ्योऽण' [ ७. २. १६५. ] यदवा वाह्यते तदिति णिगन्तात् भुजिपत्यादित्वादनटि वाहनम् । विष्टकणं इत्यादि विष्टं प्रविष्टं20 व्याप्तं वा चिह्न कर्णे यस्य विशेविषेरशोटेश्च कर्मणि क्त विष्टाष्टशब्दौ । संख्यावचनो वाऽष्टशब्दः । एवं पञ्चशब्दोऽपि। भिदेश्छिदेश्च क्त .'रदादमूर्छ' [ ४. २. ६६. ] इति दतयोर्नत्वे छिन्नभिन्नौ छिदेः 'ऋज्यजि' ३८८ (उणादि) इति रे छिद्र, स्रवत्यस्मादिति 'निघृषि' ५११ (उणादि) इति किति वप्रत्यये स्र वः । स्वस्तिशब्दोऽव्ययं स्वस्ति कायति स्वस्तिकः । विष्टं कर्णे यस्य । अष्टं कर्णे यस्य । संख्यापक्षे तु अष्टौ25 कर्णेऽस्य । अष्टपञ्चशब्दौ चाऽत्र अष्टगुणे पञ्चगुणे च चिह्नविशेषे वर्त्तते । भिन्नौ कण्णौं यस्य । छिन्नौ कण्णौं यस्य, भेदच्छेदौ हि स्वामिविशेषज्ञापनाय कर्णयोः क्रियेते। एवं छिद्रमपि । स्र वाकारं चिह्न स्रवेणोच्यते । स्वस्तिकः साक्षादेव चिह्न तत्कणे यस्य । चक्रसक्थ इति चक्र सक्थनि अस्य 'सक्थ्यक्ष्णः स्वाङ्ग ट:' [७. ३. १२६. ] । ३. २.८४ ।। 30
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy