SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ दफा ११८] विधवाका गोद लेना १६५ वं शूद्राणामनधिकारप्रसंङ्गः “शूद्राणां शूद्रजातिष्वि' तिव्यवस्थापक तदधिकारकल्पनात्' । इति नचैव भत्रनुज्ञानेपिस्त्रीणामनधिकारापत्ति रितिवाच्यम् “ अन्यत्रानुजानादिति प्रतिप्रसवेन प्रधान भूते प्रतिग्रहेधिकारसिद्धावधिकृताधिकारन्यायेन होममन्त्रेप्यधिकारप्राप्तौ "स्त्रीशूदाणाममन्त्रक मिति मन्त्र पर्युदासादमन्त्रक प्रतिग्रहसिद्धः वस्त्रादिप्रतिग्रहवत् न चैवं भत्रनुज्ञारहिताया विधवाया अपि "स्त्रीशूद्राणाममन्त्रक" मिति मंत्ररहित प्रतिग्रह सम्भवात् वाचस्पत्युक्त हेतोराभा सतापत्तिरितिवाच्यम् न स्त्री पुत्रं दद्यादिति वाक्येन सामान्येन स्त्रीणां पुत्रप्रतिग्रह निषेधे अन्यत्राऽनुज्ञानाद्भर्तु" रिति वाक्यशेषेण भत्रनुज्ञाननिमित्तक प्रतिग्रहप्रतिप्रसवेऽनुज्ञाचिरहे निमित्ताभावात् विधि प्रतिप्रसवाभावेन निषेधस्यैव व्यवस्थित्या अधिकृताधिकारन्यायाप्राप्तौ होममन्त्रप्रापत्यभावेनस्त्रीशूद्राणाममन्त्रक मितिपयुदासाप्रवृत्तिरित्याश यात् नच भर्तरिजीवत्येव तदनुज्ञानापेक्षा तदानीं भर्तृपरतन्त्रत्वात् स्त्री गाम्तन्मरणोत्तरन्तु दानव्रतचर्यादाविवपुत्रप्रतिग्रहेपिभत्रनुज्ञाना न पेक्षाधिकारे न किञ्चिद्वाधकमितिवाच्यम् भर्तरिजीवति तत्पारतन्त्र्यादेव तदनुज्ञां बिना पुत्रप्रतिग्रहाप्रसङ्गात् "न स्त्री पुत्रं दद्यात्प्रतिग्रही याति" निषेधस्य वैयापत्या तत्सामर्थ्यात तस्मि नजीवत्यपि तज्जीवन कालिका नुज्ञाया विरहे स्वातन्त्र्येण तत्र प्रतिग्रहाधिकार निषेधस्यैव कल्पनीयत्वात् किञ्च तत्पुत्रत्वं तद्व्यापारं बिना न भवतीति तावदनुभवसिद्ध सच व्यापारः दत्तकस्थले क्वचित्सा क्षात्प्रतिग्रहरूपः स्त्री कर्तृक प्रतिग्रह स्थलेच स्त्रियै पुत्र प्रतिग्रहाया नुशादानरूप एतयोर्मध्ये कस्याप्यभावेतु कथं तत्पुत्रत्वोपपत्तिः अतएव सत्याषाढ सूत्रे अथोढज क्षेत्रज कृत्रिम पुत्रिकापुत्र स्त्री द्वारजासुराद्यढज दक्षिणा जानां पित्रोश्चे” त्येतस्मिन् स्त्री द्वारा परिगृहीतस्य दत्तकस्य स्त्री द्वारजपदेन व्यवहारः कृतः अत्र द्वारपद स्वारस्यात् पत्युरेवानुशादान द्वारा प्रतिग्रहे स्वातन्त्र्यं लभ्यते स्त्री द्वारा प्रतिगृही तवान् इत्यर्थ स्वारस्यात् स्त्रिया द्वारत्वं च तदैवोपपद्यते पतिकर्तृका नुज्ञाया अप्यभावेतु स्त्रिया एव स्वातन्त्र्येण प्रतिग्रह कर्तृत्वात् द्वारत्वं सर्वथाऽनुपमन्नमेवस्यात् "रक्षेत् कन्यांपिता विन्नांपतिःपुत्रा स्तुवार्धके अभावे ज्ञातयस्त्वेषां न स्वातन्त्र्यं क्वचित् स्त्रिया' इत्यादि वाक्यैः सर्वावस्थासु स्त्रीणां तत्तन्नियन्तृ पारतन्त्र्य वोधनात् अन्यत्रानुशानाद्भतुरित्यंशस्य पारतन्त्र्याभिप्रायकत्वे विशिष्य केवल भर्तृ पदोपादानस्या नौचित्यापत्तेः भर्तृ पुत्रत्वरूपप्रयोजन सिद्धिरेव तदनुज्ञानापेक्षोक्तौ वीजमिति दत्तक मीमांसायां सिद्धान्तितम् किञ्च प्रत्यासन्ने देवरपुत्रे विद्यमानेऽप्रत्यासन्नस्य यस्यकस्यचित् वालकस्य प्रतिग्रहनिषेधा दप्ययं प्रतिग्रहो न पुत्रत्वं साधयितुमीष्टे तथाच वशिष्ठः “शुक्रशोणित सम्भवः
SR No.032127
Book TitleHindu Law
Original Sutra AuthorN/A
AuthorChandrashekhar Shukla
PublisherChandrashekhar Shukla
Publication Year
Total Pages1182
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy