SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ १६४ दत्तक या गोद [चौथा प्रकरण प्रमाण हैं सब इसके द्वारा मालूम हो जायगे । धर्मशास्त्रकी मंशा काभी पता चलजायगा | तीसरे यह मालूम हो जायगा कि इस विषयमें काशी के महान विद्वानों का मत एक है। पाठक ! असली व्यवस्थाएं यदि आवश्यक हों तो आपको इस ग्रन्थ लेखक से प्राप्त हो सकेगी। (१) महामहोपाध्याय श्रीशिवकुमार शर्म मिश्र शास्त्री की व्यवस्थाःअथ कयोश्चित्सोदरयोर्वैश्ययोःकनिष्ठे कतिपयापत्ययुक्ते वर्तमाने ज्येष्ठे चानपत्ये स्वपत्न्यै दत्तक गृहणायाज्ञामदत्तवत्येव परलोकं गतवति ज्येष्ठपत्त्या स्वदेवर पुत्रं विहाय यः कोपिबालकः दत्तकत्वेन प्रतिगृही तः सोय वालकः स्वप्रतिगृहीत्याः पत्युः दत्तकपुत्रो भवितुमर्हति नवेति संशये उच्यते। कथमपि न भवितुमर्हति "न स्त्री पुत्र दद्यात् प्रतिगृह्णीयाद्वाअन्यत्रा नुज्ञानाद् भर्तुरिति' दत्तक मीमांसा धृतवशिष्ठवाक्येन भत्रनुज्ञारहित स्त्रिया दत्तक ग्रहणस्य निषेधेनाधिकारवाधात् अनधिकृतकृत कर्मणः फलानुत्पादकतया शूद्रकर्तृकवाजपेयस्य स्वर्गसाधकापूर्वानुत्पादकत्ववत् भत्रननुज्ञात स्त्रीकर्तृक बालक प्रतिग्रहस्य तस्मिन् वालके पिण्डोदक क्रियाहेतु भूत पुत्रत्वानुत्पादकत्वात् दत्तकेपिण्डोदकक्रिया योग्यता धायक पुत्रत्वस्य तादृशपुत्रत्व सम्पत्त्युद्देशेन शास्त्रविहित साङ्ग कर्म विशेष मात्र साध्यतयाधिकारिणोविरहे तादृशकर्मस्वरूपानुत्पत्त्या पुत्रत्वोत्पत्तेः सर्वथाऽसंभाव्यत्वात् दत्तक मीमांसाकारश्च "अपुत्रेणैव कर्तव्यः पुत्रः प्रतिनिधिः सदा । पिण्डोदकक्रियाहैतोर्यस्मात् तस्मात् प्रयत्नत'' इत्यत्रिवाक्ये "अपुत्रेणसुतः कार्योयादृक्तादृक् प्रयत्नतः । पिण्डोदक क्रियाहेतो र्नामसंकीर्तनायच" इतिमनुवाक्ये बापुत्रेणेति पुंस्त्वश्रणात् स्त्रियानाधिकार इति गम्यत इत्युक्त्वा "नस्त्रीपुत्रंदद्यादि" तिवशिष्ठवाक्यमुपष्टम्भकमुक्तवान् । वाचस्पति मिश्रस्तु दत्तकपरिग्र. हविधानवोधकवाक्ये व्याहृतिमिर्तुत्वा 'अदूरवान्धवं वन्धुसन्निकृष्ठमेवप्रतिगृह्णी यादि" तिसमान कर्तृकता बोधकत्वाप्रत्ययश्रवणात् होमकर्तु रेव प्रतिग्रहसिद्धः स्त्रीणां होमानधिकारित्वात् प्रतिग्रहानधिकार इति सहेतुकं स्त्रीणां प्रतिग्रहा नधिकारमाह । विचारितश्चायं वाचस्पत्यग्रन्थे नन्दन पाण्डिते न तद् यथा “न च शौनकीये आचार्यवरणस्यो क्तत्वात् तद्द्वाराहोमसिद्धि रितिवाच्यम् होमसिद्धावपि प्रतिग्रह मत्रानधिकारेण प्रतिग्रहासिद्धेः तदाह शौनकः “देवस्यत्वेति मन्त्रेण हस्ताम्यांपरिगृह्य च अङ्गादशैत्यूचं जप्त्वा आघ्रायशिशु मूर्धनी" तिनवै
SR No.032127
Book TitleHindu Law
Original Sutra AuthorN/A
AuthorChandrashekhar Shukla
PublisherChandrashekhar Shukla
Publication Year
Total Pages1182
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy