________________
अधीत्य सूत्रान् सु विचिन्त्य भावान् विलोक्य दोषांश्च बहून् समाजे कुशाग्रबुद्धे विचचाल चित्तं "न किंशुकेषु भ्रमरा रमन्ते" ॥२२॥
श्रावका “राजनगरे” तस्मिन्नवसरे ततः सूत्र सिद्धान्त मालोक्य नावन्दन्त गुरू निमान् ॥२३॥
तच्छावकाणा मुपदेशनाय सुबीरभाणादि जनेन साकम् दक्षं गुरुं प्रेषयतिस्म भिन्तुं विचार्य हंसेष्विव राजहंसम् ॥२४॥
ततो जनै स्तैः सह युक्तिवादं विधाय भित्तु गुरुपक्षपाती सन्देह सत्तामपि तान्दधानान् चकार सर्बान् निज पाद नम्रान् ॥२५॥
अथोऽवदन्मुनिजनः नहि भ्रमोज्झितं मनः तथापि ते विचित्रताः प्रकुर्वते पवित्रताः ॥२६॥
तदैव भिक्षावे ज्वरः चुकोप कोऽपि गह्वरः तदति पीडिते सति स्थिता शुभा मुने मतिः ॥२७॥
मनस्य चिन्तयत्स्वयं मृषाऽवदाम हा वयम् इमे जनाःसदाशया विरोधिता बृथा मया ॥२८॥
स्फुट त्यदः क्षणा दुरो विलोकयन् छलं गुरोः अरोगता महं यदा भजे, ब्रुवे स्फुटं तदा ॥२६॥
गुरु विरुद्ध गायकः परत्र नो सहायकः इति स्फुटं विचारयन् जगाद न्दन् निशामयन् ॥३०॥
अहो जना भवन्मतं जिनोक्त शास्त्र सम्मतम् असत्य माश्रिता वयं विदन्तु सत्य निर्णयम् ॥३१॥