SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ ३६२ काव्यमाला । करणवत् खव्यापारसाध्यस्योपकारस्याचमत्कारकत्वादतो नेदमन्योन्यान्तर मित्याहुः ॥ उत्तरं निरूपयति— उत्तरमात्रात्मनोन्नयने स्यादुत्तरं नाम । यत्र प्रतिवाक्यश्रवणादेव प्रश्नवाक्यं कल्प्यते तदुत्तरं नामालंकारः । यथा इत्यन्योन्यम् । - 'अण्णेसु पहिअ पुच्छसु वाहकुडुम्बे पुसिअचम्माई | अहं वाहजुवाणो हरिणेसु धणुं ण णामेति ॥' अत्रान्येषु व्याधकुटुम्बेषु पृषन्मृगचर्माणि पृच्छेति उत्तरवाक्येन 'पृष - चर्माणि ममापेक्ष्यन्ते तानि सन्ति नेगे' इति पथिकप्रश्नवाक्यं कल्प्यते । न चेदं काव्यलिङ्गमेव उत्तरस्य प्रश्नं प्रति हेतुत्वादिति वाच्यम् । उत्तरस्य प्रश्नजनकत्वाभावात् । प्रमाणान्तरनिर्ज्ञातार्थोपपादकस्यैतद्विषयत्वव्यवस्थापनाच ॥ न चैवमप्यनुमानेऽन्तर्भावोऽस्तु यद्यदुत्तरं तत्तत्प्रश्नपूर्वकमिति व्याप्तिबलेनोत्तरस्य प्रश्नज्ञापकत्वादिति वाच्यम् । साध्यसाधनयोः सामानाधिकरण्य एवानुमानप्रवृत्तेः । महानसे धूमदर्शनेन पर्वतीयवचनुमितेरभावात् । इह च प्रश्नोत्तरयोर्व्यधिकरणत्वादित्यतिरिक्तत्वमेवोचितम् ॥ ननु एतदुत्तराव्यवहितपूर्वकाल: प्रश्नवाक्याधिकरणमुत्तराव्यवहितपूर्वकालत्वान्मदुत्तराव्यवहितपूर्वकालवदित्यनुमित्यास्यान्यथा सिद्धिः स्यादिति चेत्, न । यत्किचित्प्रश्नवाक्याधिकरणत्वसिद्धया प्रश्नान्तरेणार्थान्तरत्वात् । प्रश्नोत्तरं किंचित्कालविलम्बेनोत्तरोक्तिस्थले व्यभिचाराच्च । न च तत्प्रश्नविषयजिज्ञासानिवर्तकभङ्गयन्तराव्यवहितपूर्वकत्वं विवक्षितम् इति वाच्यम् । तथापि प्रश्नस्य धर्मिविशेषनिष्ठत्वप्रतीत्यनुपपत्तेः । अथैवं ' तदुत्तरवाक्यजन्यबोधवत्त्वप्रकारकेच्छाविशेष्योऽयम् एतत्पूर्वकालावच्छिन्नप्रश्नकर्ता उत्त १. ' अन्येषु पथिक पृच्छ व्याधकपुत्रेषु ( कुटुम्बेषु) पृषतचर्माणि । अस्माकं व्याधयुवा हरिणेषु धनुर्न नामयति ॥ ' [ गाथा० ७/२९] २. 'न वा' इति तूचितम्.
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy