________________
अलंकारकौस्तुभः ।
३६३ रवाक्य बोधजन्यनिवृत्तिप्रतियोगीच्छावत्त्वात्' इत्यनुमितिरस्तु । नच हेत्वसिद्धिः । ' एतदुत्तरवाक्यं परकीयजिज्ञासानिवृत्त्यर्थकत्वेन प्रयुक्तम्, उत्तरवाक्यत्वात्, मदुत्तरवाक्यवत्' इति तत्सिद्धेः । न चैवमपि प्रश्नवाक्यविशेषस्वरूपसिद्ध्यसंभवः तादृशार्थस्यैवार्थबोधादिति वाच्यम् । वाक्यकल्पनापक्षेऽपि अर्थविशेषस्यैव विवक्षिततया वाक्यविशेषकल्पने नियमाभावात् । आचाराद्यनुमीयमानस्मृत्यादौ आनुपूर्वीविशेषानवच्छेदेऽपि तादृशार्थबोधकं यस्य यद्वाक्यमुपस्थितं तस्यैव कल्पनवदत्रापि तथैवेति तूभयत्रापि समानम् । श्रूयमाणोत्तरेण यादृशेच्छानिवृत्तिसंभवस्तदनुकूलस्यैव प्रश्नस्यानुमित्या सिद्धेः । न चैतादृशव्याप्तिज्ञानविधुराणामपि प्रश्नकल्पनोदयान्नैवमिति वाच्यम् । प्रश्नं विना नोत्तरानुपपत्तिरिति ज्ञानाभाववतां प्रश्नोन्नयनाभावात् । अनुपपत्तिज्ञाने सति च तस्यैव व्याप्तिज्ञानस्वरूपत्वात् । यथोक्तं कुसुमाञ्जलावाचार्यैः
'अनियमस्य नायुक्तिर्ना नियन्तोपपादकः । '
इति । तत्कथमस्यानुमानाद्भेद इति चेत् उच्यते । साध्यसाधनयोर्व्याप्यादीनां शाब्दत्व एवानुमानालंकाराभ्युपगमात् ।
'अनुमानं तदुक्तं यत्साध्यसाधनयोर्वचः ।'
इत्यतस्तादृशार्थलाभात् ।
ये तु — कविनिबद्धप्रमाकत्रन्तरनिष्ठमेवमनुमितिरनुमानालंकारमिच्छन्ति, तन्मते त्वत्र तत्प्रसङ्ग एव नास्ति । व्याधपथिकयोः प्रश्नज्ञानसत्त्वेनानुमित्यनुदयादिति दिक् ।
उत्तरान्तरमाह
प्रश्ने लोकविदितोत्तरस्य तच्चासकृत्प्रोक्तौ ।
प्रश्ने सति तदुत्तरत्वेन लोकेऽप्रसिद्धं यदुत्तरं असकृत्कथ्यते तदप्युत्तरमित्यर्थः । असकृदुक्तिव्यवच्छेदः । बहुत्वं प्रश्नोत्तरेणाविवक्षितम्, न त्वेकस्मिन्नेव प्रश्ने उत्तराणामिति । यथा
'किं क्रूरं स्त्रीहृदयं किं गृहिणः प्रियसुखाय दारगुणाः । कः कामः संकल्पः किं दुष्करसाधनं प्रज्ञा ॥'