SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ अलंकारकौस्तुभः । यथा 'नलेन भायाः शशिना निशैव त्वया स भायान्निशया शशीव । पुनः पुनस्तद्युगयुग्वधाता योग्यामुपास्ते नु युवां युयुक्षुः ॥' यथा वा 'कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य । अन्योन्यशोभाजननाद्बभूवं साधारणो भूषणभूष्यभावः ॥' क्वचिदुत्प्रेक्षा संकीर्णमपि यथा 'चन्दुज्जाए ण मए ण चन्दाअवो णु धट्टिअप्पसनो । दोहिं वि ते हिअअणो मअणेण णु दोवि तेणिआ अइभूमिम् ॥' क्वचिदुपमासंकीर्णो यथा ➖➖➖ 'इतरेतरशोभायै संयोगो युवयोः किल । नवचन्द्रकलाशर्वजटामुकुटयोरिव ॥' क्वचित्सोपकारं संकीर्णपरस्परोपकारस्वरूपमपि यथा'उद्रच्छो पिअइ जलं जह जह विरलङ्गुली विर्र पहिओ । पावालिआ वि तह तह धारं तणुअं वि तणुएइ ।' ३६१ ――― ... | अत्र पान्थमुखावलोकनोत्सुकायाः प्रपापालिकायाः खाङ्गुलीविरलीकरणेन पथिकेनोपकारः कृतः तेनैव च प्रपापालिकामुखावलोकनस्यापि सिद्ध्या पथिकोपकारस्यापि सिद्धिः । एवं प्रपापालिकाकर्तृकधारातनूकरणेन पथिकोपकारस्येव प्रपापालिकोपकारस्यापि, पथिकेन प्रपापालिकामुखावलो - कनवत् तया पथिकमुखावलोकनस्यापि सिद्धेरिति दीक्षिताः ॥ रसगङ्गाधरकृतस्तु–खव्यधिकरणव्यापारसाध्यस्यैव परोपकारस्य चमत्काराधायकत्वं न तु खसमानाधिकरणव्यापारसाध्यस्यापि तुषारशीतली १. 'परस्परं त' ख. ....... २. ॥' [ इति छाया ।] ३. 'ऊर्ध्वाक्षः पिबति जलं यथा यथा विरलाङ्गुलिश्चिरं पथिकः । प्रपापालिकापि तथा तथा धारां तनुकामपि तनूकरोति ॥' [गाथा ० २।६१] ४६
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy