________________
३ अध्यायः ]
छन्दःशास्त्रम् ।
इति यधिकारः ।
अथ त्रिष्टुब्जगत्यधिकारः ।
एकेम त्रिष्टुब्ज्योतिष्मती । ३ । ५० ॥
त्रिष्टुभः प्रस्तुतत्वात्प्रत्यासत्तेश्च तस्या एव संबन्धः । एकेन त्रैष्टुमेन पादेनाधिकाराचतुर्भिर्गायत्रैः पञ्चपात् 'त्रिष्टुब्ज्योतिष्मती' नाम छन्दो भवति । त्रैष्टुमेन सह 'पश्चभि
२७
१. 'पङ्क्तिः पचपदे 'ति यास्कः । ( निरु० ७ १२1११ ) । सर्वानुक्रमणिकायां कात्यायनेन तु पङ्क्लेरष्टौ मेदा उक्ताः - पञ्चमं पङ्किः पञ्चपदा [१] अथ चतुपदा - विराद दशकैः [२] अयुजौ जागतौ सतोबृहती [२] युजी चेद्विपरीता [४] आयौ चेत्प्रस्तारपङ्गिः [५] अन्त्यौ चेदास्तारपङ्गिः [६] आद्यन्त्यौ चेत्संस्तारपङ्किः [५] मध्यमौ चेद्विष्टारपङ्किः [८]' (ऋ० सर्वा० ८) इति । तत्र [१] पक्डिः - ( ३।४८) इत्यत्रोदाहृता ।
[२] विराद
'ऋ॒तस्य॑ प॒थि वे॒धा अ॑पाय (1) प्रि॒ये मनो॑सि दे॒वासो॑ अक्रन् (२) । दधा॑नो॒ नाम॑ म॒हो वर्च॑सि॒ (३) पु॑र॒शवे॑ वे॒न्यो व्या॑वः (४) ॥' (ऋ० सं० ४ ७ १७१३)
चतुर्थपादे व्यूहेनाक्षरपूर्तिः ।
[३-८] सतोबृहती-सतः पङ्क्तिः (३।३८), विपरीता ( ३।३९), प्रस्तारपक्डिः (३\४०), आस्तारपङ्क्तिः (३।४१), संस्तारपङ्किः ( ३।४३), विष्टारपङ्किः ( ३।४२ ) इति उदाहृता एव ।
दैव्यादिभेदानामुदाहरणानि तु
[१] दैवी - 'नम॑स्ति॒राय॑ ।' ( तै० सं० ४पाटा)
[२] आसुरी - 'अरि॒प्रा आपो॒ अप॑ रि॒प्रम॒स्मत् । ' ( अथ० सं० १६।१।१० ) [३] प्राजापत्या - 'प्र व इन्द्राय वृत्रहन्तमाय विप्राय गाथं गायत यं जुजोषते ।' ( साम० सं० पू० ५ | २|६ १० )
[४] याजुषी — 'इन्द्र॑स्य त्वा ब॒हुभ्या॒मुद्य॑च्छे ।' ( तै० सं० १1१12 ) [५] साम्नी - 'विश्वतो दावन् विश्वतो न आभर यं त्वा शविष्ठमीमहे ।"
(सा० सं० पू० ५।२६।१ )
[६] आर्ची- 'वसन्त इनु रन्त्यो ग्रीष्म इनु रन्त्यः ।
वर्षाभ्यनु शरदो हेमन्तः शिशिर इन्नु रन्त्यः ॥'
(सा० सं० पू० ६।३।१३/२)
[७] ब्राह्मी - 'प्राची दिगनिरधि॑पतरस॒ती र॑क्षि॒तादि॒त्या इ॒ष॑वः । तेभ्यो नमोऽधि॑पतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु । यो 35स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो जम्मे॑ दध्मः ॥' (अथ० सं० ३ । २७/१)