________________
द्वितीयोऽध्यायः।
का नाम। यथा
यः पुरतो वक्त्यतिमिष्टं दोषभाषणरतः परोक्षतः।. . वाञ्छसि सौख्यं त्यज तंद्राङ् मित्रसंशितमरिं विषोपमम् ॥ . . तथा यद्यापातलिकादीनां सप्तानां छन्दसां प्रतिपादमन्तेऽधिकैकगुरुयोगः स्यात्, तदा तन्नामकान्यौपच्छन्दसिकानि सप्त भवन्ति । तत्रापातलिकोपच्छन्दसिकम् । यथा
आपातलिकादिषु चेदेको गुरुरधिको भवति प्रतिपादान्ते ।।
आपातलिकादिकसंज्ञायुगौपच्छन्दसिकं तदभिप्रेतम् ॥ एवं दक्षिणान्तिकोपच्छन्दसिकादौ ग्रन्थगौरवप्रसङ्गादस्मदनुक्तान्युदाहरणान्यूह्यानि । एवं च वैतालीयसङ्ख्या सप्तत्रिंशत् ३७ ॥ २० ॥
इति श्रीनारायणभट्टविरचितायां वृत्तरत्नाकर
टीकायां वैतालीयप्रकरणम् ॥
अथवक्त्रस्याऽष्टाक्षरत्वेनानुष्टुभि वक्तव्यस्याऽपितत्सकलस्य नियतगुरुलघुत्वाभावात्पथ्याचपलादिसंशा कार्या । मात्रावृत्तनामसाङ्कर्याच मात्रावृत्तप्रस्ताव एव लक्षणमाह
वक्त्रं नाद्यान्नसौ स्यातामधेर्योऽनुष्टुभि ख्यातम् ॥ २१ ॥(१)
श्राद्यादतरादूर्व न्सौ नगणसगणौ न स्याताम् , मगणादिर्यथेच्छं स्यात्, अब्धेश्चतुर्थादक्षरादूर्ध्वं यो यगणः स्याद्यदि, तदा वक्त्रनाम ख्यातम् । तच्चानुष्टुभि ख्यातमुक्तमाचार्यैरिति । यदातदाशब्दाध्याहारेण ख्यातशब्दावृस्या च व्याख्येयम् । यद्यप्याद्यादब्धेश्चेति गणग्रहणमपि सम्भवति तथाप्यनुष्टुभि ख्यातमित्यष्टाक्षरत्वसूचनाद्णचतुष्टयासम्भवादब्धिग्रहणस्याऽक्षरपरता । आधग्रहणस्यापि च तत्समभिन्याहारान्गणग्रहणे चतुर्थाक्षरमादाय गगारम्भाश्चतुर्थाक्षरादूर्घ यगणारभ्भायोगा
(१) एतदुदाहरणान्तरं यथा छन्दोवृत्तौल. य. य. गु. ल. य. य. गु.
व
न--वधारा-म्बुसंसि-
तं ।, । , ss, s, गु. ज. य. गु. - - - - - - कि-चिदुन्न तघोणा- ग्रं s, 51, 55, 5,
--सुधाग-धिनिश्वा-सम॥ ।, Iss, ।sss. ल. त. य. गु... - - - - -- - ---- म-ही काम-यतेव-त्रम् ॥ ।, 551, 15s, s.