________________
नारायणभट्टीसहितवृत्तरत्नाकरेअथार्यालक्षणशानपूर्वकज्ञेयस्वरूपत्वात्कैश्चिदार्याभेदत्वाङ्गीकाराद्गीतीलक्षयति
आर्याप्रथमदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः॥ - दलयोः कृतयतिशोभां तां गीति गीतवान्भुजङ्गेशः ॥८॥ (१) - तदाशब्दोऽत्राध्याहार्यो यदिशब्दयोगाय । तथा च यद्यार्याप्रथमा'धोक्तं लक्षणमुभयोरर्धयोः कथमपि विकल्पितषष्ठजगणचतुर्लघुगणान्यतमप्रकाराश्रयणेनापि भवेत्, तदा कृतयतिशोभां कृता यत्या विच्छेदात्मिकया शोभा श्रुतिसौभाग्यं यस्यास्ताम् । एतेनार्योक्तो यस्तत्तद्गणविशेषे सति विरामविशेषः सोऽप्यस्यां भवतीति दर्शितम् । भुजङ्गेशः =पिङ्गलस्तां गीति गीतवानुक्तवान् । “श्राद्यर्धसमा गीतिः” (पिं. सू.४-२८) इति सूत्रेणेत्यर्थः । ततश्चात्र द्वितीयार्धेऽपि पूर्णाः सगुरवः सप्त गणाः । न तु षष्ठे लघुमात्रमित्यादि क्षेयम् । इयमेका पथ्या, तिस्रो विपुलाः, द्वादश चपलाः । एतत्पूर्वोक्तत्वात्षोडशधा । तत्र पथ्यागीतिर्मूले। अन्याः स्वयमुदाहार्याः । अत्राद्यार्धमार्यावत् । द्वादश सहस्राण्यष्टौ शतानि च विकल्पाः । उत्तरार्धेऽपि तावन्त एव । परस्परहतौ कोटयः षोडशाऽष्टत्रिंशलताश्चत्वारिंशत्सहस्राणि च विकल्पाः । अङ्कतोऽपि १६३८४०००० ।
. १ पथ्यार्या ।
२ मुखविपुलार्या। ३ जघनविपुलार्या ।
४ उभयविपुलार्या । : ५ मुखचपलापथ्यार्या। . ६ मुखचपलामुखविपुलार्या ।
६ मुखचपलाजघनविपुलार्या । = मुखचपलोभयविपुलार्या ।
है जघनचपलापथ्यार्या । १० जघनचपलामुखविपुलार्या । - ११ जघनचपलाजघनविपुलार्या । १२ जघनचपलोभयविपुलार्या ।
१३ महाचपलापथ्यार्या । १४ महाचपलामुखविपुलार्या । १५ महाचपलाजघनविपुलार्या। १६ महाचपलोभयविपुलार्या । (१) अत्रोदाहरणान्तरं यथा ममस. गु.१ स.गु. २ स.गु. ३ स.गु.४ स.गु.५ ज० ६ स. गु. ७ गु० - याचे वाचे! तुभ्यं दीनो हीनो गुणैर- हं नू नम् ॥ 55, 55, 55, 55, 5, 15, 55, 5, न्ल १ न्ल २ स.गु.३ स.गु.४ स.गु.५ ज०६ स०७ गु० - निजतन-य इति वि-चार्य--प्रम्णा मामे-कवार-मपि प-श्य ॥ ।।।।।।।।, ss, ss, 5, 15, 155, 5 :