________________
प्रथमोऽध्यायः। मत्रैवर्णिकानामप्यस्मिन् ग्रन्थेऽधिकार इति दर्शयति । वर्णग्रहणेन च "मात्राच्छन्दो, गणच्छन्दः” इति कैश्चिदुक्तो द्वेधा विभागः पराकृतः। तादृशविभागे ोकाक्षराणां श्यादीनामसहाऽऽपत्तेः। वर्णच्छन्दस्त्वेन विभागे च गणच्छन्दसामपि सजहादिति भावः । अन्ये तु गणमात्राऽक्षरच्छन्दस्त्वेन त्रैविध्यमाहुः । यदुक्तम्
प्रादौ तावद्गणच्छन्दो मात्राच्छन्दस्ततः परम् । . . . तृतीयमक्षरच्छन्दश्छन्दत्रेधा तु लौकिकम् ॥ इति । ___ गणच्छन्द आर्यादि, मात्राच्छन्दो वैतालीयादि, अक्षरच्छन्दः समान्यादीति । तदप्यनेन पराकृतम् । गणच्छन्दसामपि मात्राच्छन्दःसु सङ्ग्रहात् ॥ ४॥ । अन्यकर्तृकसम्भावितच्छन्दोऽन्तरप्रक्षेपनिक्षेपनिराकरणाय ग्रन्थं परिमाणतः परिच्छिनत्ति
षडध्यायनिबद्धस्य च्छन्दसोऽस्य परिस्फुटम् । .....
प्रमाणमपि विज्ञेयं षट्त्रिंशदधिकं शतम् ॥ ५॥ . परि समन्तात्साकल्येन स्फुटं प्रकटं यथा स्यात्तथा षड्भिरध्यायैनिबद्धस्य घटितस्याऽस्य च्छन्दसश्च्छन्दोग्रन्थस्य वृत्तरत्नाकराख्यस्य षट्त्रिंशदधिकं षट्त्रिंशत्सङ्ख्याधिकं द्वात्रिंशदक्षराणामनुष्टुप्छन्दसांश्लोकानां शतं १३६ परिमाणं शेयम् । अनुष्टुपश्लोकपरिमाणमेवात्र गृह्यते । ग्रन्थगणनायां लोके तस्यैव प्रसिद्धत्वात् । एतेनाल्पतरग्रन्थपाठे प्रयासाभावाद्विस्तीर्णभाष्यवृत्त्यादिग्रन्थप्रयासनैरपेक्ष्येणैव प्रसिद्धसकलच्छन्दोज्ञानसिद्धेयुत्पित्सुभिरयमेव ग्रन्थोऽभ्यसनीय इति सूचितम् ॥५ इदानीं सकलवाग्व्यापित्वेन मादीन्गणान्स्तुवलक्षणकथनार्थमुद्विशति
म्यरस्तजन्नगैर्लान्तैरेभिर्दशभिरक्षरैः।
समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमिव विष्णुना ॥६॥ - मगण-यगण-रगण-सगण-तगण-जगण-भगण-नगण-गुरुभिर्लान्तैलंघुयुक्तैरेभिर्दशभिर्गणाष्टकगुरुलघुरूपैरक्षरैः समस्तं वाङ्मयं वाग्जालं व्यातम् । अस्तीति शेषः। अत्रोपमा विष्णुना त्रैलोक्यं यथा व्याप्तं तद्वत् । अत्र स्वरोच्चारणं सौकर्यार्थम् । एवमुत्तरत्रापि ।
वक्ष्यमाणत्र्यक्षरप्रस्तारक्रमोपपन्नक्रमनिर्देशकसूत्रानुरोधेनाऽयं गणक्रम उक्तः सूत्राणि तु “धी श्री स्त्री म्" (पि. सू.२-१) वरा “सा यू”,