SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ नारायणभट्टीसहितवृत्तरत्नाकरेवैभवाढिजनितसुखपरम्पराप्राप्त्यर्थम्। नत्वा, तेन केदारणेदं छन्दः क्रियते इति तृतीयश्लोकेनाऽन्वयः। वेदानामृगाढीनाम् । अर्थम् , शैवशास्त्राणि च रुद्रयामलादीनि जानातीत्येवंविधः पव्ये(२)कसंज्ञो द्विजोत्तमो ब्राह्मणोत्तमोऽभूत् । तस्य पुत्रः केदारनामा शिवचरणारविन्दपूजनतत्परोऽस्ति । लक्ष्येणोदाहरणेन मात्रावर्णाऽन्यतरनियतात्मकेन छन्दसा, लक्षणेन च तन्नियमकथनात्मकेन छन्दसा तदर्भिन्नेन युक्तम् । लक्ष्यमेव लक्षणमिति विग्रहः। वृत्तरत्नानामाकरः खनियंत्र तत् । यद्वा तेषामाकरः समूहो यत्र । आकरो निवहोत्पत्तिस्थानश्रेष्ठेषु कथ्यते । इति विश्वप्रकाशोक्तेः । एतयैवाऽन्वर्थसंज्ञया नाम प्रसिद्धम् । छन्दः तत्प्रतिपादकत्वालक्षितं तच्छास्त्रम् । बालानां = छन्दःशास्त्राऽज्ञानाम् । सुखेनाऽल्पोपायेन सिद्धये छन्दोज्ञानार्थ क्रियते इत्यर्थः। सुखपदस्य प्रथमप्रयोगादेतच्छावयितृणां श्रोतृणां च सुखाऽतिशयः सूचितः। यद्वा बालप्रतिपत्तेःप्रयोजनत्वेऽपि स्वप्रयोजनत्वाऽभावादेतद्ग्रन्थजनितबालव्युत्पत्तिजनितोपकाराऽदृष्टेन जनिष्यमाणस्वर्गादिसुखपरम्परैव स्वेष्टा स्वग्रन्थप्रयोजनत्वेनाऽनेन निर्दिश्यते । ब्रह्मविष्णुगौरीविनायककीर्तनेन च मङ्गलाऽन्तरं तदनु स्मृतिरूपं सचितम् । शङ्करमित्यत्र शंशब्दस्याऽव्ययत्वाद्विभक्त्यन्तत्वाऽभावात् “सुपो धातुप्रातिपदिकयोः” (पा० सू० २४-७१ ) इति न भवति । द्विजोत्तमग्रहणेन च ब्राह्मणकर्तृत्वादेतस्य ग्रन्थस्य श्रवणे दोषाऽभावः सूचितः। लक्ष्येत्यादिना लक्ष्येभ्यः काव्यादिभ्यः केवललक्षणेभ्यश्च सूत्रादिभ्यो भिन्नलक्ष्यलक्षणेभ्यश्च वृत्त्यादिभ्योऽतिशयः सूचितः॥१॥२॥३॥ एवं सामान्यतो ग्रन्थकरणं प्रतिज्ञाय पूर्वाऽऽचार्योक्तिमूलकतया स्वकल्पितताशङ्काजनितश्रोत्रनादरं निराकतुं प्रतिपाद्यमर्थ विशेषतः प्रतिजानीते पिङ्गलादिभिराचार्यैर्यदुक्तं लौकिकं द्विधा । मात्रावर्णविभेदेन छन्दस्तदिह कथ्यते ॥४॥ . पिङ्गलेन-सूत्रका श्रादिपदाद्भाष्यकारादिभिश्च । श्राचार्यैरवधेयवचनैः। यल्लौकिकं छन्दो मात्रावर्णविभेदेन इदं मात्राच्छन्दः आर्यादि, इदं वर्णछन्दः समान्यादि, इतिभेदेन । द्विधा-द्विप्रकारमुक्तं तच्छन्दः । इह ग्रन्थे । कथ्यते इत्यर्थः । लौकिकशब्देन वेदवेदाङ्गाऽनधिकारिणा (१) 'पट्येक' इति पाठः पश्चिकायाम् ।
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy