SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ सुवृत्ततिलकम् । प्रतिभा भारवेर्येन सच्छायेनाधिकीकृता ॥ ३१ ॥ वसन्ततिलकारूढा वाग्वल्ली गाढसङ्गिनी ॥ रत्नाकरस्योत्कलिका चकास्त्याननकानने ॥ ३२॥ भवभूतेः शिखरिणी निरर्गलतरङ्गिणी ॥ रुचिरा घनसन्दर्भे या मयूरीव नृत्यति ॥ ३३ ॥ सुवशा कालिदासस्य मन्दाक्रान्ता प्रवल्गति ॥ सदश्वदमकस्येव काम्बोजतुरगाङ्गना ॥ ३४॥ शार्दूलक्रीडितैरेव प्रख्यातो राजशेखरः ॥ शिखरीव परं वः सोल्लेखैरुच्चशेखरः ॥ ३५ ॥ इत्येवं पूर्वकवयः सर्ववृत्तकरा अपि ॥ अस्मिन्हार इवैकस्मिन्प्रायेणाभ्यधिकादाः ॥ ३६ ॥ सुवर्णाप्रबन्धेषु यथास्थाननिवेशिनाम् ॥ रत्नानामिव वृत्तानां भवत्यभ्यधिका रुचिः ॥ ३७ ॥ तस्माद्यथायं विनियोगमार्गः . प्रदर्शितो वृत्तनिवेशनेषु ॥ तथैव कार्यः कविभिः कृतझै- रवश्यवाचां नियमस्तु नायम् ॥ ३ ।। इत्यारुरुक्षोः प्रथमोपयुक्तं प्रवृत्तवाचश्च विवेककारि ॥ महाकवेरप्यतिसूक्ष्मतत्त्व विचारहर्षप्रदमेतदुक्तम् ॥ ३६ ॥ इत्यौचित्यप्रचुररचनाविश्रुतश्रव्यवृत्त व्यक्तिः शक्तिप्रसृतवचसां दर्शिता सङ्ग्रहेण ।। नेमेन्द्रेण प्रणयिविपदां हर्तुराश्चर्यकर्तु भूभृद्भर्तुर्भुवनजयिनोऽनन्तराजस्य राज्ये ॥४०॥ इति श्रीप्रकाशेन्द्रात्मजव्यासदासापरनामश्रीक्षेमेन्द्रविरचिते सुवृत्ततिलके वृत्तविनियोगो नाम तृतीयो विन्यासः ।
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy