SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ सुवृत्ततिलकम् । चतुष्प्रकारः प्रसरः सतां सारस्वतो मतः ॥ २ ॥ शास्त्रं काव्यविदः प्राहुः सर्वकाव्याङ्गलक्षणम् ॥ काव्यं विशिष्टशब्दार्थ साहित्य सदलङ्कृति ॥ ३ ॥ शास्त्रकाव्यं चतुर्वर्गप्रायं सर्वोपदेशकृत् ॥ भभौम काव्यादि काव्यशास्त्रं प्रचक्षते ॥ ४ ॥ तत्र केवलशास्त्रेऽपि केचित्काव्यं प्रयुञ्जते ॥ तिक्तौषधरसोद्वेगे गुडलेशामवोपरि ॥ ५ ॥ यथा वैद्यके वाग्भटस्य — २६२ मधु मुखमिव सोत्पलं प्रियायाः कलरणना परिवादिनी प्रियेव ॥ कुसुमचयमनोहरा च शय्या किसलयिनी लतिकेव पुष्पिताग्रा ॥ शास्त्रं कुर्यात्प्रयत्नेन प्रसन्नार्थमनुष्टुभा ॥ येन सर्वोपकाराय याति सुस्पष्टसेतुताम् ॥ ६ ॥ काव्ये रसानुसारेण वर्णनानुगुणेन च ॥ कुर्वीत सर्ववृत्तानां विनियोगं विभागवित् ॥ ७ ॥ शास्त्रकाव्येऽतिदीर्घाणां वृत्तानां न प्रयोजनम् ॥ काव्यशास्त्रेऽपि वृत्तानि रसायत्तानि काव्यवित् ॥ ८ ॥ पुराणप्रतिबिम्बेषु प्रसन्नोपायवर्त्मसु ॥ उपदेशप्रधानेषु कुर्यात्सर्वेष्वनुष्टुभन् ॥ ६ ॥ नानावृत्तविशेषास्तु कवेः शस्तस्य शासनात् ॥ यान्ति प्रभोरिवात्यन्तमयोग्या अपि योग्यताम् ॥ १० ॥ उग्रगोग्रहसङ्ग्रामे तत्कालसदृशोपमाः ॥ द्वष्टास्त एव वैराटेस्त एवाश्वाः किरीटिनः ॥ ११ ॥ तथाप्यवस्थासदृशैः साधुशब्दपदस्थिताः ॥ सुवृत्तैरेव शोभन्ते प्रबन्धाः सजना इव ॥ १२ ॥ वृत्तरत्नावली कामादस्थाने विनिवेशिता ॥ कथयत्यज्ञतामेव मेखलेव गले कृता ॥ १३ ॥ नहि नाम नवोन्मेषिकुचायाश्चारुचक्षुषः ॥ चिरत्यक्तस्मराचारे जराजीर्णकचे रुचिः ॥ १४ ॥ तस्मादत्र यथास्थाने विनियोगाय सङ्गतिः ॥ उदाहरणदिङ्मात्रैर्दशिताभिमता सताम् ॥ १५ ॥ श्रारम्भे सर्गबन्धस्य कथाविस्तरसङ्ग्रहे ॥ शमोपदेशवृत्तान्ते सन्तः शंसन्त्यनुष्टुभम् ॥ १६ ॥
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy