________________
२४४
छन्दोमार्याम्
अथ वैतालीयम् । षड् विषमेऽष्टौ समे कलास्ताश्च समे स्युनों निरन्तराः ॥ न समात्र पराश्रिता कला वैतालीयेऽन्ते रलौ गुरुः ॥१॥ घुसणेन मदेन चर्चितं तव यन्निन्दति राधिके कुचम् । मुदमातनुतेऽत्र पाकिमं तद्वैतालीयं फलं हरेः॥
तत्रैवान्तेऽधिके गुरौ स्यादौपच्छन्दसिकं कवीन्द्रहृद्यम् ॥२॥ द्विरावृत्त्या श्लोकः पूरयितव्यः ।
आतन्वानं सुरारिकान्तास्वौपच्छन्दसिकं हृदो विनोदम् । कंसं यो निर्जघान देवो वन्दे तं जगतां स्थितिं दधानम् ॥
अथ पज्झटिका। पतिपदयमकितषोडशमात्रानवमगुरुत्व विभूषितगात्रा ॥ पज्झटिकाया एष विवेकः कापि न मध्यगुरुर्गण एकः ॥१॥ तरलवतंसाश्लिष्टस्कन्धश्चलतरपज्झटिकाकटिबन्धः । मौलिचपलशिखिचन्द्रकवृन्दः कालियशिरसि ननर्त मुकुन्दः ॥ नवमगुरुत्वं व्यभिचरति च रणधरणीजितरजनिविहारीति ॥ मात्रात्रयोदशकं यदि पूर्व लघुकविरामि ।। पठ पुनरेकादशं दोहडिका द्विगुणेन ॥ ३॥ .
प्राकृतभाषायां प्रचारः। राई दोहडि पठण सुणि हासिलो करणगोपाल । बिन्दावणघणकुञ्जघरचलिश्रो कमण रसाल ।। इति छन्दोमञ्जयों मात्रावृत्ताख्यः पञ्चमः स्तबकः ।
-~~-~- Pre m -----
षष्ठः स्तबकः । गद्यं पद्यमिति प्राहुर्वाङ्मयं द्विविधं बुधाः ॥ प्रागुक्तलक्षणं पद्यं गद्य सम्प्रति गद्यते ॥ १ ॥ अपादं पदसन्तानं गद्यं तत्तु त्रिधा मतम् ।। वृत्तकोत्कलिकाप्रायवृत्तगन्धिप्रभेदतः ॥ २ ॥ अकठोराक्षरं स्वल्पसमासं वृत्तकं मतम् ।। तत्तु वैदर्भरीतिस्थं गद्यं हृद्यतरं भवेत् ॥ ३ ॥