SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ पञ्चमः स्तबकः। - २४३ यस्यास्तां पिङ्गलनागो विपुलामिति समाख्याति ॥ . पुंसां कलिकालव्यालहतानां नास्त्युपहतिरल्पापि । वीर्यविपुला मुखे चेत्स्यागोविन्दाख्यमन्त्रोक्तिः ॥ दलयोर्द्वितीयतुयौँ गणौ जकारौ तु यत्र चपला सा ॥ ५ ॥ द्विरावृत्त्या श्लोकः पूरयितव्यः । चपला न चेत्कदाचिन्नृणां भवेद्भक्तिभावना कृष्णे। धर्मार्थकाममोक्षास्तदा करस्था न सन्देहः ॥ आय दलं समस्तं भजेत लक्ष्म चपलागतं यस्याः ।। शेषः पूर्वजलक्ष्मा मुखचपला सोदिता मुनिना ॥ ६ ॥ नन्दसुत ! वञ्चकस्त्वं दृढं न ते प्रेम गच्छ तत्रैव । यत्र भवति ते रागः कापि जगादेति मुखचपला ॥ प्राक्प्रतिपादितमर्धे प्रथमे प्रथमेतरे च चपलायाः ॥ लक्ष्माश्रयेत सोक्ता विशुद्धधीभिर्जघनचपला ॥ ७ ॥ कृष्णः शृङ्गारपटुयौवनमदरागचपलललिताङ्गः। आसीद् व्रजाङ्गनानां मनोहरो जघनचपलानाम् ॥ . आयाप्रथमाधसमं यस्था अपराधमीरिता गीतिः ॥ केशववंशजगीतिर्लोकमनोहरिणहारिणी जयति । गोपीमानग्रन्थेविमोचनी दिव्यगायनाश्चर्या ॥ आर्यापराधतुल्ये दलद्वये प्राहुरुपगीतिम् ॥ ८ ॥ नवगोपसुन्दरीणां रासोल्लासे मुरारातिम् । अस्मारयदुपगीतिः स्वर्गकुरङ्गोदशां गीतेः ॥ आर्याशकलद्वितये विपरीते पुनरिहोद्गीतिः ॥ नारायणस्य सन्ततमुद्गीतिः संस्मृतिर्मत्या। अर्चायामासक्तिर्दुस्तरसंसारसागरे तरणिः ॥ आर्यापाग्दलमन्तेऽधिकगुरु तादृक्परार्धमार्यागीतिः ॥९॥ द्विरावृत्त्या श्लोकः पूरणीयः। हर्षाश्रुस्तिमितद्शः प्रमोदरोमाञ्चकञ्चुकाञ्चितदेहाः । आर्यागीति भक्ता गायन्ति श्रीपतेश्वरितसम्बद्धाम् ॥ चारुसमीरणविपिने हरिणकलङ्ककिरणावली सविलासा। - प्राबद्धराममोहा वेलासूले विभावरी परिहीना ॥ इति भट्टौ ।
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy