________________
द्वितीयः स्तबकः ।
उदञ्चत्कावेरीलहरिषु परिष्वङ्गरङ्गे लुठन्तः
कुहूकराठी कण्ठीरवरवलवत्रासितप्रोषितेभाः ॥ श्रमी चैत्र मैत्रावरुणितरुणीकेलिकङके लिमल्लीचलल्ली हल्ली सकसुरभयश्चण्डि चञ्चन्ति वाताः ॥
इति कस्यचित् । भवेत्सैव च्छाया तयुगगयुता स्याद्वादशान्ते यदा ॥ २ ॥ श्रभीष्टं जुष्टो यो वितरति लसद्दोश्चारुशाखोज्ज्वलः
स्फुरन्नानारत्नस्तव किततनुश्चित्रांशुकालम्बितः ॥ न यस्याश्छायामुपगतवतां संसारती व्रातप
स्तनोति प्रोत्तापं जयति जगतां कंसारिकल्पद्रुमः ॥ सूर्याश्वैर्याद मः सजौ सतनगाः शार्दूलविक्रीडितम् ॥ ३ ॥ गोविन्दं प्रणमोत्तमाङ्ग ! रसने ! तं घोषयाहर्निशं
२३५
पाणी ! पूजयतं मनः ! स्मर पदे ! तस्यालयं गच्छतम् ॥ एवं चेत्कुरुताखिलं मम हितं शीर्षादयस्तद् ध्रुवं न प्रेक्षे भवतां कृते भवमहाशार्दूलविक्रीडितम् ॥ नौ यो नो गुरुत्स्वरमुनिकरणैराहं सुरसाम् ॥ ४ ॥ कामक्रीडासतृष्णो मधुसमयसमारम्भरभसा
कालिन्दीकूलकु विहरणकुतुकाकृष्टहृदयः ॥ गोविन्दो बल्लवीनामधररससुधां प्राप्य सुरसां
शङ्के पीयूषपानः प्रचयकृतसुखं व्यस्मरदसौ । मो गौ नौ तौ गौ स्वरहयतुरगैः फुल्लदाम प्रसिद्धम् ॥ ५ ॥ शश्वल्लोकानां प्रकटितकदनं ध्वस्तमालोक्य कंसं हृप्यश्चेतोभिस्त्रिदिववसतिभिर्व्योमसंस्थैर्विमुक्तम् ॥
मुग्धामोदेन स्थगितदशदिगाभोगमाहूतभृङ्गं
मौलौ दैत्यार्न्यपतदनुपमं स्वस्तरोः फुल्लदाम ॥ (२०) कृतिः । (विंशत्यक्षरा वृत्तिः । )
ज्ञेया सप्ताश्वषाभिर्मरभनययुता भ्लौ गः सुवदना ॥ १ ॥ प्रत्याहृत्येन्द्रियाणि त्वदितरविषयान्नासाग्रनयना
त्वां ध्यायन्ती निकुञ्जे परतरपुरुषं हर्षोत्थपुलका ॥ श्रानन्दाश्रुलताक्षी वसति सुवदना योगेकर सिका
कामार्तिं त्यक्तुकामा ननु नरकरिपो ! राधा मम सखी ॥
सजजा भरौ सलगा यदा कथिता तदा खलु गीतिका ॥ २ ॥