________________
२३४
छन्दोमअर्याम्मुरहरचित्रचेष्टितकलाकलापसंस्मारक
क्षितितलनन्दनं व्रज सखे ! सुखाय वृन्दावनम् ॥ अहत धनेश्वरस्य युधि यः समेतमायोधनं
तमहमितो विलोक्य विबुधैः कृतोत्तमायोधनम् ॥ विभवमदेन निहतहियातिमात्रसम्पन्नकं
व्यथयति सत्पथादधिगताथवेह सम्पन्न कम् ॥ इतिभट्टी। इह ननरचतुष्कसृष्टं तु नाराचमाचक्षते ॥३॥ दिनकरतनयातटीकानने चारुसञ्चारिणी
श्रवणनिकटकृष्टमेणेक्षणा कृष्ण ! राधा त्वयि ॥ ननु विकिरति नेत्रनाराचमेषातिहृच्छेदनं
तदिह मदनविभ्रमोद्भान्तचित्तां विधत्स्व द्रुतम् ॥ रघुपतिरपि जातवेदोविशुद्धां प्रगृह्य प्रियां
प्रियसुहृदि बिभीषणे सङ्क्रमय्य श्रियं वैरिणः ॥ रविसुतसहितेन तेनानुयातः ससौमित्रिणा
भुजविजितविमानरत्नाधिरूढः प्रतस्थे पुरीम्॥इति रघौ। मन्दाक्रान्ता नपरलघुयुता कीर्तिता चित्रलेखा ॥४॥ शङ्केऽमुष्मिागति मृगदृशां साररूपं यदासी
दाकृष्येदं व्रजयुवतिसभा वेधसा सा व्यधायि ॥ नैताद्वक्चेत्कथमुदधिसुतामन्तरेणाच्युतस्य
प्रीतं तस्यां नयनयुगमभूच्चित्रलेखाद्भुतायाम् ॥ मः सोजः सतसा दिनेशऋतुभिः शार्दूलललितम् ॥ ५॥ कृत्वा कंसमृगे पराक्रमविधिं शार्दूलललितं
यश्चक्रे क्षितिभारकारिषु दरं चैद्यप्रभृतिषु ॥ सन्तोषं परमं तु देवनिवहे त्रैलोक्यशरणं
श्रेयो नः स तनोत्वपारमहिमा लक्ष्मीप्रियतमः ॥
( १९) अतिधृतिः । ( ऊनविंशत्यक्षरा वृत्तिः।) रसवश्वैयौं न्सौ ररगुरुयुतौ मेघविस्फूर्जिता स्यात् ॥१॥ कदम्बामोदाढ्या विपिनपवनाः केकिनः कान्तकेका
विनिद्राः कन्दल्यो दिशि दिशि मुदा दर्दुरा दृप्तनादाः ॥ निशा नृत्यद्विद्युद्विलसितलसन्मेघविस्फूर्जिता चे
त्प्रिया स्वाधीनोऽसौ दनुजदलनो राज्यमस्मात्किमन्यत्॥